Skip to main content
Search
KS
Kumārasambhavam • Chapter 08

Canto 8

अष्टमः सर्गः

Canto 8 of Kumārasambhavam.

Total: 91 Verses • Citations: KS 8.1–91 • 1 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
KS 8.61 रथोद्धता
पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोऽम्भसा । विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पश्येति । पक्वफलिनीफलत्विषोदयरागाद्विम्बाभ्यां प्रतिबिम्बाभ्यां लाञ्छिते चिह्निते वियत्सरोम्भश्च येन तथोक्तेन हिमांशुना विप्रकृष्टं विवरमन्तरालं यस्य तत्तथोक्तम् । अतिदूरस्थमित्यर्थः । चक्रवाकमिथुनं विडम्ब्यतेऽनुक्रियते पश्य । रात्रौ वियति सरोजले चेन्दोर्बिम्बप्रतिबिम्बौ विरहाद् दूरवर्तिनौ चक्रवाकाविव दृश्येते इत्यर्थः अन्वयः: पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा हिमांऽशुना विप्रकृष्टविवरं चक्रवाकमिथुनं विडम्ब्यते, पश्य ।
KS 8.62 रथोद्धता
शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव । अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसंपुटैः कराः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शक्यमिति । नवोदयाः सद्य उत्पादिता अप्रगल्भयवसूचिकोमला अकठोरयवाङ्करसुकुमारा ओषधिपतेरिन्दोः करास्तव कर्णपूररचनाकृते कर्णावतंसनिर्माणक्रियायां । संपदादित्वाद्भावे क्विप् । अग्रनखसंपुटैर्नखाग्रसंभेदैश्छेत्तुं शक्यम् । शक्या इत्यर्थः । `शकिसहोश्च` (पा.3|1|99) । इति कर्मणि यत्प्रत्ययः । शक्यमिति विपरीतलिङ्गवचनस्यापि सामान्योपक्रमात्कर्माभिधायकत्वम् । पश्चात्कर्मविशेषाकाङ्क्षायां करा इति निर्देशो न विरुध्यते । यथाह वामनः- `शक्यमिति रुपं लिङ्गवचनस्यापि सामान्योपक्रमत्वादिति । अत्र प्रमाणम्-शक्यं श्वमांसेनापि क्षुत्प्रतिहन्तुमिति भाष्यकारप्रयोगः, इति अन्वयः: (हे पार्वति !) अवोदयाः अप्रगल्भयवसूचिकोमलाः ओषधिपतेः कराः तव कर्णपूररचनाकृते अग्रनखसम्पुटैः छेत्तुं शक्यम् ।
KS 8.63 रथोद्धता
अङ्गुलीभिरिव केशसंचयं सन्निगृह्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अङ्गुलीभिरिति । शशी चन्द्रमाः । नायकस्तु प्रतीयते । अङ्गुलीभिः केशसंचयमिव मरीचिभिस्तिमिरं संनिगृह्य गृहीत्वा । सरोजेलोचने इवेत्युपमितिसमासोऽङ्गुलीभिरिवेत्युपमायास्तत्साधकत्वात् । कुड्मलीकृते सरोजलोचने यस्य तत्तथोक्तं रजन्या मुखं प्रारम्भः वदनं चेति गम्यते । चुम्बतीव । अत्र समासोक्त्या उत्प्रेक्षासङ्करायते अन्वयः: शशी अङ्गुलीभिः केशसञ्चयम् इव मरीचिभिः तिमिरं संनिगृह्य कुड्मलीकृतसरोजलोचनं रजनीमुखं चुम्बति इव ।
KS 8.64 रथोद्धता
पश्य पार्वति नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम् । लक्ष्यते द्विरदभोगदूषितं संप्रसीददिव मानसं सरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पश्येति । हे पार्वति ! नवेन्दुरश्मिभिः सामिभिन्नतिमिरमर्धनिरस्तध्वान्तं नभस्तलं द्विरदभोगदूषितं गजक्रीडाकलुषितं संप्रसीदत्प्रसादं गच्छन्मानसं मानसाख्यं सर इव लक्ष्यते पश्य अन्वयः: हे पार्वति ! नवेन्दुरश्मिभिः भिन्नसान्द्रतिमिरं नभस्तलं द्विरदभोगदूषितं सप्रसादं मानसं सर इव लक्ष्यते । पश्य ।
KS 8.65 रथोद्धता
रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः । विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रक्तभावमिति । एष चन्द्रमा रक्तभावं रक्तत्वमुदयरागमपहाय परिशुद्धमण्डलः शुद्धबिम्बो निष्कण्टको जातः । तथाहि । निर्मलप्रकृतिषु स्वच्छभावेषु शुद्धसचिवसंपन्नेषु च कालदोषेण जाता कालदोषजा विक्रिया विकारः स्थिरोदया स्थायिनी न भवति खलु । चन्द्रोऽपि स्वभावनिर्मल इति । यथा कश्चिद्राजा कुतश्चिन्निमित्ताद्विरक्तमण्डलः पश्चात्प्रतिकृतशुद्ध्या स्वस्थमण्डलो भवति तद्वदिति भावः । तत्र प्रथमार्थे समासोक्तिरलङ्कारस्तस्यार्थान्तरन्यासेनाङ्गाङ्गिभावेन सङ्करः अन्वयः: एष चन्द्रमा रक्तभावम् अपहाय परिशुद्धमण्डलो जातः । निर्मलप्रकृतिषु कालदोषजा विक्रिया स्थिरोदया न खलु ।
KS 8.66 रथोद्धता
उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः । नूनमात्मसदृशी प्रकल्पिता वेधसेह गुणदोषयोर्गतिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उन्नतेष्विति । शशिनः प्रभा चन्द्रिकोन्नतेष्वद्रिशृङ्गादिषु स्थिता । निशातमस्तु निम्नसंश्रयपरं गर्तादिनीचस्थानप्रवणम् । तथाहि । वेधसा गुणदोषयोरात्मसदृशी स्वभावानुरुपा गतिः प्रवृत्तिः प्रकल्पितैव ननु । तेजस्विन उन्नमन्ति मलिनास्तु नीचन्तीति भावः अन्वयः: शशिनः प्रभा उन्नतेषु स्थिता । निशातमः निम्नसंश्रयपरम् । वेधसा गुणदोषयोः आत्मसदृशी गतिः प्रकल्पिता हि एव ननु ।
KS 8.67 रथोद्धता
चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः । मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): चन्द्रपादेति । गिरिर्हिमाद्रिश्चन्द्रपादैरिन्दुकिरणैर्जनितप्रसरैश्चद्रकान्तमणीनां जलबिन्दुभिः करणैर्मेखलातरुषु निद्रितान्संजातनिद्रान् । तारकादित्वादितच् । अमूञ्शिखण्डिनो मयूरानसमयेऽकाले बोधयति । इन्दुकिरणसंपर्कादुपरिचन्द्रमणिस्पन्देष्वधोवृक्षेशयाः शिखण्डिनो वृष्टिभयाज्जाग्रतीत्यर्थः । शिखण्डिग्रहणमितरशकुन्तानां कुलालनिलयत्वादिति भावः अन्वयः: गिरिः चन्द्रपादजनितप्रवृत्तिभिः चन्द्रकान्तजलबिन्दुभिः मेखलातरुषु निद्रितान् अमून् शिखण्डिनः असमये बोधयति ।
KS 8.68 रथोद्धता
कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरिव पश्य सुन्दरि । हारयष्टिगणनामिवांशुभिः कर्तुमागतकुतूहलः शशी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कल्पवृक्षेति । हे अविकल्पेनाविवादेन सुन्दरि अविवल्पसुन्दरि ! शशी संप्रति कल्पवृक्षाणां शिखरेष्वग्रेषु प्रस्फुरद्भिरंशुभिः । करस्थानीयैरिति भावः । हारयष्टिरशनां कल्पतरुलम्बिहारपरिगणनां कर्तुमुद्यतकुतूहल इवोत्पन्नकौतुकः किम् । इत्युत्प्रेक्षा अन्वयः: हे सुन्दरि ! शशी सम्प्रति कल्पवृक्षशिखरेषु प्रस्फुरद्भिः अंशुभिः हारयष्टिरचनां कर्तुम् उद्यतकुतूहल इव, पश्य ।
KS 8.69 रथोद्धता
उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेरियम् । भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उन्नतेति । गिरेरुन्नतावनतभाववत्तया निम्नोन्नतप्रदेशवत्वेन हेतुना सतिमिरा तिमिरमिश्रा । समोन्नतेषु तमसोऽनवकाशादिति भावः । इयं चन्द्रिका बहुविधाभिर्भक्तिभी रचनाभिरर्पिता विन्यस्ता मत्तदन्तिनो भूतिर्भसितमिवाभाति । `भूतिर्मातङ्गश्रृङ्गारे` इति विश्वः । तत्र भक्तिसहितानि गजाङ्गान्येव तिमिरभागोपमेत्यनुसंधेयम् अन्वयः: गिरेः उन्नताऽवनतभाववत्तया सतिमिरा इयं चन्द्रिका बहुविधाभिः भक्तिभिः अर्पिता मत्तहस्तिनः भूतिः इव भाति ।
KS 8.70 रथोद्धता
एतदुच्छ्वसितपीतमैन्दवं वोढुमक्षममिव प्रभारसम् । मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एतदिति । एतत्कुमुदं कैरवं कर्तृ उच्छ्वसितेन पीतमुच्छ्वसितपीतम् । अतितृष्णयोच्छ्वस्योच्छ्वस्य पीतमित्यर्थः । इन्दोरिदमैन्दवं प्रभा चन्द्रिका सैव रसो द्रवस्तं सोढुमक्षममिवाञ्जसा मुक्तषट्पदविरावं प्रवर्तितभृङ्गनादं यथा तथा निबन्धनादा वृन्ताद्भिद्यते विकसति । कर्मकर्तरि लट् । यथा लोके कस्यचिदतिपानान्निःसहात्मन उच्चैः क्रोशत उदरं भिद्यते तथैतदिति भावः अन्वयः: एतत् कुमुदम् उच्छ्वसितपीतम् ऐन्दवं प्रभारसं वोढुम् अक्षमम् इव अञ्जसा मुक्तषट्पदविरावम् आनिबन्धनात् भिद्यते ।
KS 8.71 रथोद्धता
पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् । मारुते चलति चण्डि केवलं व्यज्यते विपरिवृत्तमंशुकम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पश्येति । शुद्धया ज्योत्स्नया जनितो रुपसंशयः अंशुकं ज्योत्स्नावेति स्वरूपसंदेहो यस्य तत्तथोक्तं कल्पतरुलम्ब्यंशुकं । हे चण्डि अत्यन्तकोपने ! गौरादित्वान्ङीष् । देवलं मारुते चलति सति विपरिवृत्तं चलं सद् व्यज्यते पश्य । ज्योत्स्नासच्छायत्वान्न रुपतो विविच्यते परंतु क्रिययेत्यर्थः अन्वयः: हे चण्डिके ! कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् अंशुकं केवलं मारुते चलति विपरिवृत्तं व्यज्यते ।
KS 8.72 रथोद्धता
शक्यमङ्गुलिभिरुद्धृतैरधः शाखिनां पतितपुष्पपेशलैः । पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवालकान् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शक्यमिति । अङ्गुलिभिर्धृतैरुत्थितैः शाखिनामधः पतितपुष्पवत्पेशलैः कोमलैः । तथा भ्रमकरैरित्यर्थः । एभिः पत्रैर्जर्जरा शकलिता शशिप्रभा चन्दिका तस्या लवैः खण्डैः । तरुतलेषु पत्रान्तराललक्ष्यज्योत्स्नामण्डलैरित्यर्थः । तवालकानुत्कचयितुं बद्‌धुम् । `कच दीप्तिबन्धनयोः` इति धातोस्तुमुन्प्रत्ययः । शक्यम् शक्या इत्यर्थः । शक्यमिति लिङ्गवचनस्य सामान्योपक्रमादित्याद्यनुपदमेवोक्तम् अन्वयः: अङ्गुलिभिः उत्थितैः शाखिनाम् अधः पतितपुष्पपेशलैः एभिः पत्रजर्जरशशिप्रभालवैः तव अलकान् उत्कचयितुं शक्यम् ।
KS 8.73 रथोद्धता
एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी । साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एष इति । हे चारुमुखि = हे उज्ज्वलानने ! `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्` (पा.4|1|54) इति ङीष् । एष शशी, तरलबिम्बया = स्फुरन्मण्डलया योगतारया । प्रत्यहं यया युज्यते सा योगतारा । नित्यनक्षत्रेणेत्यर्थः । साध्वसान्नवसंगमभयादुपगतप्रकम्पया = वेपथुमत्या, नवदीक्षया = नवोद्वाहया कन्यया वरो वोढेव युज्यते संगच्छते । युजेर्दैवादिकत्वात्कर्तरि लट् अन्वयः: हे चारुमुखि ! एष शशी तरलबिम्बया योगतारया साध्वसात् उपगतप्रकम्पया नवदीक्षया कन्यया वर इव युज्यते ।
KS 8.74 रथोद्धता
पाकभिन्नशरकाण्डगौरयोरुल्लसत्प्रतिकृतिप्रसन्नयोः । रोहतीव तव गण्डलेखयोश्चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पाकेति । हे चन्द्रबिम्बनिहिताक्षि हे चन्द्रविनिहितेक्षणे । पाकभिन्नः पाकविकसितो यः शरकाण्डस्तद्वद्गौरयोः सितयोः । `अवदातः सितौ गौरः` इत्यमरः । उल्लसन् प्रकृतिकजः प्रसादः स्वभावजः प्रसादः (प्रसन्नता) ययोरतयोः सपदि रोहतीव आरोहणं करोतीवेत्युत्प्रेक्षा । प्रोज्ज्वलयोस्तव गण्डलेखयोश्चन्द्रिका रोहतीव । गण्डस्थलप्रतिबिम्बसंक्रमणमूर्छिता चन्द्रिका तयोरेव प्ररुढेति प्रतीयत इत्यर्थः अन्वयः: हे चन्द्रबिन्बनिहिताक्षि ! पाकभिन्नशरकाण्डगौरयोः उल्लसत्प्रकृतिजप्रसादयोः तव गण्डलेखयोः चन्द्रिका उपरि रोहति इव ।
KS 8.75 रथोद्धता
लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् । त्वामियं स्थितिमतीमुपस्थिता गन्धमादनवनाधिदेवता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लोहितेति । लोहितेऽरुणेऽर्कमणिभाजने सूर्यकान्तपात्रेऽर्पितं कल्पवृक्षमधु = कल्पतरुप्रसूतं मद्यं, स्वयं बिभ्रती गन्धमादनवनाधिदेवता स्थितिमतीमवस्थानवतीम् । इह स्ववने तिष्ठन्तीमित्यर्थः । त्वामियं प्रत्यक्षोपस्तिता प्राप्ता । स्वगृहागतां त्वां सम्भावयितुमागतेत्यर्थः अन्वयः: लोहिताऽर्कमणिभाजनाऽर्पितं कल्पवृक्षमधु स्वयं बिभ्रती इमं गन्धमादनवनाऽधिदेवता स्थितिमतीं त्वां स्वयम् उपागता ।
KS 8.76 रथोद्धता
आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः । अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि मदः करिष्यति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आर्द्रेति । हे विलासिनि ! अत्र लब्धवसतिः मधु इदं ते स्वभावत आर्द्रकेसरसुगन्धि सरसकेसरसुगन्धि । `गन्धस्येदुत्पूतिससुरभिभ्यः` इत्यनेनेकारः । मुखम् । मत्तं रक्तमेव नयनं यस्य तत् । हे विलासिनि विलसनशीले ! अत्र तन्मुखे लब्धवसतिर्लब्धानुप्रवेशो मधुमद्यं कं गुणान्तरं गुणविशेषं करिष्यति । न कंचिदित्यर्थः । केसरसौगन्ध्यादिगुणानां त्वन्मुखे स्वभावसिद्धत्वान्मधुनः फलं न पश्यामीत्यर्थः । `अर्धर्चाः पुंसि च` (पा.2|4|31) इति पुंलिङ्गत्वम् । यदाहुः- `मकरन्दस्य मद्यस्य माक्षिकस्य च वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ॥` इति अन्वयः: हे विलासिनि ! अत्र लब्धवसतिः मधुः किं गुणान्तरं करिष्यति ? (यतः)इदं ते स्वभावत आर्द्रकेसरसुगन्धि मुखं मत्तरक्तनयनम्
KS 8.77 रथोद्धता
मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम् । इत्युदारमभिधाय शङ्करस्तामपाययत पानमम्बिकाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मान्यभक्तिरिति । अथवा सखीजनो मान्या भक्तिर्यस्य स तथोक्तः । सखीजनः स्वीकार्य इत्यर्थः । ततोऽनङ्गदीपनमिदं वक्ष्यमाणं पानं संव्यतामित्युदारं चतुरमभिधाय शंकरस्तामम्बिकां पीयत इति पानं मद्यमपाययत पाययामास । पिबतेर्ण्यन्ताल्लुङि तङ् । पिबतः प्रत्यवसानार्थादणि कर्तुः कर्मत्वम् । पिबतेर्निगरणार्थत्वेऽपि `नपादभ्याo` इति परस्मैपदप्रतिषेधः । ननु मान्यभक्तिरित्यत्र कथं पुंवद्भावः । `अप्रियादिषु` इति निषेधाद्भक्तिशब्दस्य प्रियादिपाठान्नैष दोषो नपुंसकपूर्वपदत्वात् । यथाह वृत्तिकारः- `दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धम्` इति । भोजराजस्तु- `भज्यत इति कर्मसाधनस्यैव प्रियादिपाठतया दृढभक्तिरिति न तु भजनं भक्तिरिति भावसाधनस्य । अतोऽत्र स्त्रीपूर्वपदत्वेऽपि न दोषः` इत्याह अन्वयः: `(हे पार्वति !) अथवा सखीजनो मान्यभक्तिः, (अतः) अनङ्गदीपनम् इदं सेव्यताम्` इति उदारम् अभिधाय शङ्करः ताम् अम्बिकां पानम् अपायमत ।
KS 8.78 रथोद्धता
पार्वती तदुपयोगसम्भवां विक्रियामपि सतां मनोहराम् । अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पार्वतीति । पार्वती = कर्त्री । तदुपयोगसंभवां मद्यपानजन्यां विक्रियामपि सतां मनोहराम् आम्रताम्रत्वमप्रतर्क्यो दुर्ज्ञेयो यो विधियोगोऽनुष्ठानयोगस्तेन निर्मितां सहकारतामतिसौरभत्वमिव ययौ = प्रापेत्यर्थः । `आम्रश्चूतो रसालोसौ सहकारोऽतिसौरभः` इत्यमरः । आम्रमेवाऽनुष्ठानविशेषेण यथा सहकारो भवति तद्वद्विक्रियाऽपि मनोहराऽभूदिति भावः अन्वयः: पार्वती तदुपयोगसंभवां विक्रियाम् अपि सतां मनोहराम् आम्रताम् अप्रतर्क्यविधियोगनिर्मितां सहकारताम् इव ययौ ।
KS 8.79 रथोद्धता
तत्क्षणं विपरिवर्तितह्रियोर्नेष्यतोः शयनमिद्धरागयोः । सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति । सुवदना = पार्वती, तत्क्षणं = तथैव विपरिवर्तितह्रियोर्निवर्तितलज्जयोः, शयनं = तल्पं, नेष्यतोः = प्रापयिष्यतोरित्थं प्रवृद्धोरागोऽनुराग आरुण्यं च ययोरिद्धरागयोः शूलिनः प्रियतमस्य मदस्य चेति द्वयोर्वशे वर्तते इति वशवर्तिन्यधीना बभूव अन्वयः: सुवदना तत्क्षणं विपरिवर्तितह्रियोः शयनं नेष्यतोः इद्धरागयोः शूलिनो मदस्य च वशवर्तिनी बभूव ।
KS 8.80 रथोद्धता
घूर्णमाननयनं स्खलत्कथं स्वेदिबिन्दुमदकारणस्मितम् । आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): घूर्णमानेति । ईश्वरो घूर्णमाननयनं भ्राम्यन्नेत्रं स्खलत् कथं स्खलद्वचनं स्वेदबिन्दुमत्स्वेदयुक्तमकारणस्मितमाकस्मिकहासयुक्तमुमामुखं तावत् । आतृष्णापगममित्यर्थः । आननेन मुखेन न पपौ । न चुचुम्बेत्यर्थः । किंतु चिरं चक्षुषा पपौ । तृष्णयाद्राक्षादित्यर्थः । तस्या मदपारवश्यं दृष्ट्वा मुदं तावदन्वभूदित्यर्थः अन्वयः: ईश्वरो घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दुमत् अकारणस्मितम् उमामुखं तावत् आननेन न पपौ चक्षुषा चिरं पपौ ।
KS 8.81 रथोद्धता
तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम् । ध्यानसंभृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तामिति । हरो विलम्बितपनीयमेखलां विस्रंसिहेमरसनां जघनभारेण दुर्वहां तां पार्वतीमुद्वहन्ध्यानसंभृतया संकल्पमात्रसिद्ध्या विभूत्या भोगसाधनेन संभृतं = संपूर्णं मणिशिलागृहं प्राविशत् । रिरंसुरिति भावः अन्वयः: हरः विलम्बितपनीयमेखलां जघनभारदुर्वहां ताम् उद्वहन् ध्यानसंभूतविभूतिः रहः मणिशिलागृहं प्राविशत् ।
KS 8.82 रथोद्धता
तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् । अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति । तत्र मणिभवने हंसवद्धवल उत्तरच्छदः प्रच्छदपटी यस्य तत्तथोक्तं जाह्नवीपुलिनमिव चारुदर्शनं शयनं शय्यां रोहिणीपतिश्चन्द्रः, शरदि भवं शारदमभ्रं मेघमिव । शरद्ग्रहणं धावल्यार्थम् । प्रियसखः सन् । प्रियया सहेत्यर्थः । अध्यशेत शयितवान् । `अधिशीङ्स्थासां कर्म` इति कर्मत्वम् । रोहिणीग्रहणसामर्थ्यादिन्दोरप्यभ्रारोहणे रोहिणीसाहित्यमनुसंधेयम् अन्वयः: रोहिणीपतिः शारदाऽभ्रम् इव तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनं शयनं प्रियासखः सन् अध्यशेत ।
KS 8.83 रथोद्धता
क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् । तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्लिष्टेति । अदयैर्निदैयैः कचग्रहैः = केशकर्षणैः क्लिष्टचन्द्रं पीडितहरचन्द्रमुत्पथमुन्मर्यादमर्पिता नखा यस्मिंस्तत्समत्सरमन्योन्यविजिगीषापूर्वकं छिदुराः स्वयमेव छिद्यमाना मेखलागुणा यस्मिंस्तत्तथोक्तम् । `विदिभिदिछिदेः कुरच्` इति कुरच्प्रत्ययः । `कर्मकर्तरि` इति काशिका । पार्वतीरतं तस्येश्वरस्य तृप्तये नाभूदिति भावः अन्वयः: अदयैः कचगृहैः क्लिष्टचन्द्रम् उत्पथाऽर्पितनखं समत्सरं छिदुरमेखलागुणं तत् पार्वतीरतं तस्य तृप्तये न अभूत् ।
KS 8.84 रथोद्धता
केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु । तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): केवलमिति । प्रियतमादयालुना केवलम् । प्रियतमायां दययैव तस्येश्वरस्य सौकुमार्यादनवरतं सुरतासहिष्णुत्वात् । नतु स्वयं तृप्त्येत्यर्थः । तत्परिगृहीतवक्षसा तया पार्वत्याश्लिष्टवक्षसा तेनेश्वरेण ज्योतिषां = नक्षत्राणां पङ्क्तिष्ववनतासु सतीषु । पश्चिमायामित्यर्थः । नेत्रमीलनकुतूहलं कृतम् । निद्रा स्वीकृतेत्यर्थः अन्वयः: प्रियतमादयालुना केवलं तत्प्रतिगृहीतवक्षसा तेन ज्योतिषां पङ्क्तिषु अवनतासु (सतीषु) नेत्रमीलनकुतूहलं कृतम् ।
KS 8.85 उपजातिः
स व्यबुध्यत बुधस्तवोचितः शतकुम्भकमलाकरैः समम् । मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति । बुधस्तवोचितो विद्वत्स्तोत्रार्हः स हर उषसि प्रभाते । स्वराणामारोहक्रमो मूर्च्छना । `क्रमयुक्ताः स्वरास्तत्र मूर्च्छना परिकीर्तिता` इति भरतः । तया मूर्च्छनया परिगृहीतकैशिकैः स्वीकृतरागविशेषैः किंनरैर्गीतमङ्गलः सन् । शातकुम्भकमलाकरैः समं कनकपद्माकरैः सह । `तपनीयं शातकुम्भं गाङ्गेयं भर्म कबुर्रम्` इत्यमरः । व्यबुध्यत विबुद्धवान् । बुध्यतेर्दैवादिकात्कर्तरि लङ् । अत्र बुध्यतेर्जागरविकासयोर्वोधयोः श्लेषनिमित्तकाभेदाध्यवसायमूला सहोक्तिरलंकारः अन्वयः: बुधस्तवोचितः स उषसि मूर्च्छनापरिगृहीतकैशिकैः किन्नरैः गीतमङ्गलः (सन्) शातकुम्भकमलाकरैः समं व्यबुध्यत ।
KS 8.86 रथोद्धता
तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर्मयः । पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति । शिथिलितोपगूहनौ शिथिलितालिङ्गनौ । जाया च पतिश्चदंपती । जायाशब्दस्य दंभावो निपातितः तौ शिवौ रचितमानसोर्मयः । मानसे सरसि रचिततरङ्गा इत्यर्थः । पद्मभेदनिपुणाः । पद्मभेदपिशुना इति यावत् । विकाससूचका इत्यर्थः । गन्धमादनवनान्तमारुताः क्षणं सिषेविरे अन्वयः: शिथिलितोपगूहनौ दम्पती तौ रचितमानसोर्मयः पद्मबोधनिपुणाः गन्धमादनवनाऽन्तमारुताः क्षणं सिषेविरे ।
KS 8.87 रथोद्धता
ऊरुमूलनखमार्गराजिभिस्तत्क्षणं हृतविलोचनो हरः । वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ऊर्विति । तत्क्षणं मारुतवीजनसमय ऊरुमूले नखमार्गराजिभिर्नखपदपङ्क्तिभिः । मरुता प्रसारितवस्त्रतया प्रकाशिताभिरित्यर्थः । हृतविलोचन आकृष्टदृष्टिर्हरः प्रशिथिलस्य वाससः संयमं बन्धनं कुर्वतीं प्रियतमामवारयत् अन्वयः: तत्क्षणम् ऊरुमूलनखमार्गराजिभिः हृतविलोचनः हरः प्रशिथिलस्य वाससः संयमं कुर्वतीं प्रियतमाम् अवारयत् ।
KS 8.88 रथोद्धता
स प्रजागरकषायलोचनं गाढदन्तपदताडिताधरम् । आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति । रागवान्रागी स हरः प्रजागरेण कषायलोचनं रक्तनेत्रं गाढैर्दन्तक्षतैस्ताडिताधरमाकुलालकं भिन्नतिलकं प्रियामुखं प्रेक्ष्यारंस्तान्वरज्यत । तादृङ्मुखदर्शनमेव तस्योद्दीपकमित्यर्थः अन्वयः: रागवान् स प्रजागरकषायलोचनं गाढदन्तपदताडिताऽधरम् आकुलाऽलकं भिन्नतिलकं प्रियामुखं प्रेक्ष्य अरंस्त ।
KS 8.89 रथोद्धता
तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् । निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तेनेति । निशात्यये प्रभाते निर्मलेऽपि तेन हरेण भङ्गिभिर्भङ्गैर्विषमो निम्नोन्नत उत्तरच्छदः प्रच्छदपटो यस्मिंस्तत् । मध्ये पिण्डिता पुञ्जीकृता विसूत्रमेखला छिन्नरसना यस्मिंस्तत्तथोक्तं चरणयो रागेण लाक्षारागेण लाञ्छितं चिह्नितं शयनं नोज्झितं न त्यक्तम् । अत्र देव्याः सकलसुरतोपचारसंपन्नत्वं पुरुषायितं सूच्यते अन्वयः: निशात्यये अपि तेन भिन्नविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलं (तथा) चरणरागलाञ्छितं शयनं न उज्झितम् ।
KS 8.90 रथोद्धता
स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः । दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति । स हरो हर्षवृद्धिजननं सुखातिशयकारणं प्रियामुखरसं मदिरामृतं दिवा च निशि च दिवानिशम् । द्वन्द्वैकवद्भावः । सिसेविषुः सेवितुमिच्छुः सन् । विजयानाम्नी काचिद्देव्याः सखी तया निवेदितः । एतदर्थमागतेति ज्ञापितोऽपीत्यर्थः । दर्शनप्रणयिनामदृश्यतामाजगाम । दर्शनं न ददावित्यर्थः अन्वयः: हर्षवृद्धिजननं प्रियामुखरसं दिवानिशं सिसेविषुः (सन्) विजयानिवेदितः दर्शनप्रणयिनाम् अदृश्यताम् आजगाम ।
← Previous (Ch. 7) Full Table of Contents