अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् । समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
अथेति । अथ त्र्यहानन्तरं हिमवानोषधीनामधिपस्य चन्द्रस्य वृद्धौ । शुक्लपक्ष इत्यर्थः । शुभकर्मस्वापूर्यमाणपक्षस्य प्राशस्त्यात् । तिथौ च जामित्रं लग्नात्सप्तमं स्थानं तस्य गुणः शुद्धिः सा च ग्रहराहित्यं तेनान्वितायां सत्याम् । यद्यपि जामित्रशुद्धिर्युक्तबन्धुः सन् । सुताया दुहितुर्विवाहदीक्षा विवाहसंस्कारः सैव विधि कर्म तमन्वतिष्ठत्कृतवान्
अन्वयः:
अथ हिमवान् ओषधीनाम् अधिपस्य वृद्धौ तिथौ च जामित्रगुणाऽन्वितायां समेतबन्धुः (सन्) सुतायाः विवाहदीक्षाविधिम् अन्वतिष्ठत् ।
Morphemic Decomposition & Padaccheda
अथौषधीनाम्
अथ [ind]
अथौषधीनाम्
ओषधि [mf]
अधिपस्य
अधिप [m]
वृद्धौ
वृद्धि [f]
तिथौ
तिथि [mf]
च
च [ind]
जामित्रगुणान्वितायाम्
जामित्र [n]
जामित्रगुणान्वितायाम्
गुण [mn]
जामित्रगुणान्वितायाम्
अन्वित [adj]
समेतबन्धुर्
समे [2. P.]
समेतबन्धुर्
बन्धु [m]
हिमवान्
हिमवन्त् [m]
सुताया
सुता [f]
विवाहदीक्षाविधिम्
विवाह [m]
विवाहदीक्षाविधिम्
दीक्षा [f]
विवाहदीक्षाविधिम्
विधि [m]
अन्वतिष्ठत्
अनुष्ठा [1. Ā.]