Skip to main content
Search
Full Chapter
KS • Chapter 7: Canto 7

KS 7.2

Canonical Ref: KS 7.2
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
वैवाहिकैः कौतुकसंविधानैर्गृहे गृहे व्यग्रपुरंध्रिवर्गम् । आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वैवाहिकैरिति । अनुरागात्प्रीतिवशात् । गृहे गृहे प्रतिगृहम् । वीप्सायां द्विर्भावः । विवाहः प्रयोजनमेषामिति वैवाहिकानि तैः । `प्रयोजनम्` (पा.5|1|109) इति ठक् । कौतुकसंविधानैर्मङ्गलार्थसंपादनैर्व्यग्रो व्याकुलः पुरन्ध्रिवर्गः कुटुम्बिनीसंघो यस्मिंस्तत्तथोक्तं सानुमतोऽद्रेः पुरं बाह्यमोषधिप्रस्थमन्तःपुरमवरोधनं चैककुलेनैकगृहेण वोपमेयमासीत् `सजातीयगणे गोत्रे गृहेऽपि कथितं कुलम्` । इति विश्वः । सर्वेषामपि स्वगृह एवेदं शोभनं वर्तत इत्यभिमानोऽभूदित्यर्थः । एतेन हिमार्दैः प्रजाराग उक्तः । अत्र सर्व संपन्नमेवेत्यर्थः अन्वयः: अनुरागात् गृहे गृहे वैवाहिकैः कौतुकसंविधानैः व्यग्रपुरन्ध्रिवर्गं सानुमतः पुरम् अन्तःपुरं च एककुलोपमेयम् आसीत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
वैवाहिकैः
Lemma: वैवाहिक
POS: adj
कौतुकसंविधानैर्
Lemma: कौतुक
POS: n
कौतुकसंविधानैर्
Lemma: संविधान
POS: n
गृहे
Lemma: गृह
POS: mn
गृहे
Lemma: गृह
POS: mn
व्यग्रपुरंध्रिवर्गम्
Lemma: व्यग्र
POS: adj
व्यग्रपुरंध्रिवर्गम्
Lemma: पुरंध्रि
POS: f
व्यग्रपुरंध्रिवर्गम्
Lemma: वर्ग
POS: m
आसीत्
Lemma: अस्
POS: 2. P. • Verb: आसीत्
पुरं
Lemma: पुर
POS: n
सानुमतो
Lemma: सानुमन्त्
POS: m
ऽनुरागाद्
Lemma: अनुराग
POS: m
अन्तःपुरं
Lemma: अन्तःपुर
POS: n
चैककुलोपमेयम्
Lemma: च
POS: ind
चैककुलोपमेयम्
Lemma: एक
POS: pron
चैककुलोपमेयम्
Lemma: कुल
POS: n
चैककुलोपमेयम्
Lemma: उपमा
POS: 3. P.
Canonical CTS URN Reference
Kumārasambhavam, KS 7.2. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.1) All Verses in Chapter 7 Next Verse (KS 7.3) →