Skip to main content
Search
Full Chapter
KS • Chapter 7: Canto 7

KS 7.1

Canonical Ref: KS 7.1
Metrical Form: उपेन्द्रवज्रा
Sanskrit (Devanāgarī)
अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् । समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ त्र्यहानन्तरं हिमवानोषधीनामधिपस्य चन्द्रस्य वृद्धौ । शुक्लपक्ष इत्यर्थः । शुभकर्मस्वापूर्यमाणपक्षस्य प्राशस्त्यात् । तिथौ च जामित्रं लग्नात्सप्तमं स्थानं तस्य गुणः शुद्धिः सा च ग्रहराहित्यं तेनान्वितायां सत्याम् । यद्यपि जामित्रशुद्धिर्युक्तबन्धुः सन् । सुताया दुहितुर्विवाहदीक्षा विवाहसंस्कारः सैव विधि कर्म तमन्वतिष्ठत्कृतवान् अन्वयः: अथ हिमवान् ओषधीनाम् अधिपस्य वृद्धौ तिथौ च जामित्रगुणाऽन्वितायां समेतबन्धुः (सन्) सुतायाः विवाहदीक्षाविधिम् अन्वतिष्ठत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अथौषधीनाम्
Lemma: अथ
POS: ind
अथौषधीनाम्
Lemma: ओषधि
POS: mf
अधिपस्य
Lemma: अधिप
POS: m
वृद्धौ
Lemma: वृद्धि
POS: f
तिथौ
Lemma: तिथि
POS: mf
च
Lemma: च
POS: ind
जामित्रगुणान्वितायाम्
Lemma: जामित्र
POS: n
जामित्रगुणान्वितायाम्
Lemma: गुण
POS: mn
जामित्रगुणान्वितायाम्
Lemma: अन्वित
POS: adj
समेतबन्धुर्
Lemma: समे
POS: 2. P.
समेतबन्धुर्
Lemma: बन्धु
POS: m
हिमवान्
Lemma: हिमवन्त्
POS: m
सुताया
Lemma: सुता
POS: f
विवाहदीक्षाविधिम्
Lemma: विवाह
POS: m
विवाहदीक्षाविधिम्
Lemma: दीक्षा
POS: f
विवाहदीक्षाविधिम्
Lemma: विधि
POS: m
अन्वतिष्ठत्
Lemma: अनुष्ठा
POS: 1. Ā. • Verb: अन्वतिष्ठत्
Canonical CTS URN Reference
Kumārasambhavam, KS 7.1. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 6.95) All Verses in Chapter 7 Next Verse (KS 7.2) →