Skip to main content
Search
Ch. 7 KS 7.95
Full Chapter
KS • Chapter 7: Canto 7

KS 7.95

Canonical Ref: KS 7.95
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
नवपरिणयलज्जाभूषणां तत्र गौरीं वदनमपहरन्तीं तत्कृतोत्क्षेपमीशः । अपि शयनसखीभ्यो दत्तवाचं कथंचित्प्रमथमुखविकारैर्हासयामास गूढम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): नवेति । तत्र कौतुकागार ईश ईश्वरो नवपरिणयेन नवोद्वाहेन या लज्जा सा भूषणं यस्यास्तामत एव तेनेश्वरेण कृताक्षेपं कृताकर्षणम् । उन्नमितमिति यावत् । वदनमपहरन्तीं साचीकुर्वन्तीम् । अयं लज्जाभावः । अनुभावान्तरमाह-शयनसखीभ्योऽपि शयने सहशायिनीभ्योऽपीत्यर्थः । कथंचित्कृच्छ्रेण दत्तवाचं दतोत्तरां गौरीं प्रमथा भृङ्गिरिटिप्रभृतयो हास्यरसाधिदेवताः पशुपतेः पारिषदाः । यथाह भरतः-`श्रृङ्गारो विष्णुदैवत्यो हास्यः प्रमथदैवतः` इति । `प्रमथाः स्युः पारिषदाः` इत्यमरः । तेषां मुखविकारैर्मुखविकृतचेष्टितैर्गूढप्रकाशं हासयामास । हासाद्युपायैर्लज्जामपाकर्तुं प्रवृत्तं इत्यर्थः । यथाह गोनर्दः-`हासेन मधुना नम्रवचसा लज्जितां प्रियाम् । विलुप्तलज्जां कुर्वित निपुणैश्च सखीजनैः ।` इति अन्वयः: तत्र ईशः नवपरिणयलज्जाभूषणां तत्कृताक्षेपं वदनाम् अपहरन्तीं शयनसखीभ्यः अपि कथञ्चित् दत्तवाचं गौरीं प्रमथमुखविकारैः गूढं हासयामास ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
नवपरिणयलज्जाभूषणां
Lemma: नव
POS: adj
नवपरिणयलज्जाभूषणां
Lemma: परिणय
POS: m
नवपरिणयलज्जाभूषणां
Lemma: लज्जा
POS: f
नवपरिणयलज्जाभूषणां
Lemma: भूषण
POS: n
तत्र
Lemma: तत्र
POS: ind
गौरीं
Lemma: गौरी
POS: f
वदनम्
Lemma: वदन
POS: n
अपहरन्तीं
Lemma: अपहृ
POS: 1. Ā.
तत्कृतोत्क्षेपम्
Lemma: तद्
POS: pron
तत्कृतोत्क्षेपम्
Lemma: कृ
POS: 2. Ā.
तत्कृतोत्क्षेपम्
Lemma: उत्क्षेप
POS: m
ईशः
Lemma: ईश
POS: m
अपि
Lemma: अपि
POS: ind
शयनसखीभ्यो
Lemma: शयन
POS: n
शयनसखीभ्यो
Lemma: सखी
POS: f
दत्तवाचं
Lemma: दा
POS: 1. Ā.
दत्तवाचं
Lemma: वाच्
POS: f
कथंचित्
Lemma: कथंचिद्
POS: ind
प्रमथमुखविकारैर्
Lemma: प्रमथ
POS: m
प्रमथमुखविकारैर्
Lemma: मुख
POS: n
प्रमथमुखविकारैर्
Lemma: विकार
POS: mn
हासयामास
Lemma: हास
POS: m
हासयामास
Lemma: याम
POS: m
हासयामास
Lemma: तद्
POS: pron
गूढम्
Lemma: गुह्
POS: 6. P.
Canonical CTS URN Reference
Kumārasambhavam, KS 7.95. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.94) All Verses in Chapter 7 Next Verse (KS 8.1) →