Skip to main content
Search
KS
Kumārasambhavam • Chapter 07

Canto 7

सप्तमः सर्गः

Canto 7 of Kumārasambhavam.

Total: 95 Verses • Citations: KS 7.1–95 • 1 Lexicon Terms • Page 4 of 4 (Verses 5 shown)
KS 7.91 उपजातिः
तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् । अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति । तौ दंपती संधिषु मुखादिनिर्वहणान्तेषु पञ्चसंधिषु । तदुक्तं दशरुपके- `मुखं प्रतिमुखं गर्भः सावमर्षोपसंहृतिः` इति । व्यञ्जितवृत्तिभेदं स्फुटीकृतकौशिक्यादिवृत्तिविशेषम् । रसानुगुण्येनेति शेषः । तदुक्तं भूपालेन-कौशिकी स्यात्तु श्रृङ्गारे रसे वीरे तु सात्वती । रौद्रबीभत्सयोर्वृत्तिर्नियतारभटी पुनः । श्रृङ्गारादिषु भावज्ञै रसेष्विष्टा तु भारती ।` तथा । कौशिक्यारभटी चैव सात्वतीभारती तथा । चतस्त्रो वृत्तयो ज्ञेयास्तासु नाट्यं प्रतिष्ठितम् ।` इति । रसान्तरेषु श्रृङ्गारादिरसभेदेषु । `श्रृङ्गारादौ विषे वीर्ये गुणो रागे द्रवे रसः` इत्यमरः (अ.को.1|7|17) । `श्रृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताख्या रसाः पूर्वैरुदाहृताः` इति । प्रतिबद्धरागं प्रतिनियमेन प्रवर्तितो वसन्तललितादिरागो यस्मिंस्तम् । यस्मिन् रसे यो रागो विहितस्तदनुसारेण प्रयुक्तरागमित्यर्थः । यथाह काहलः- `रौद्रेऽद्भुते तथा वीरे पुंरागेण प्रगीयते । श्रृङ्गारहस्य करुणाः स्त्रीरागेण प्रकीर्तितः । भयानके च बीभत्से शान्ते गेयो नपुंसके ।` इति । ललिताङ्गहारं मधुराङ्गविक्षेपम् । `अङ्गहारोऽङ्गविक्षेपः` इत्यमरः (अ.को.1|7|17) । आदौ भवमाद्यम् । रुपकान्तरप्रकृतिभूतमित्यर्थः । तदुक्तम् - `आहुः प्रकरणादीनां नाटकं प्रकृतिंबुधः` इति । अप्सरमामुर्वश्यादीनाम् । प्रयुज्यत इति प्रयोगो रुपकम् । नाटकमित्यर्थः । आद्यमिति विशेषणात् । तं मुहूर्तमपश्यतां दृष्टवान्तौ । `पाघ्राध्मास्था`- इत्यादिना दृशोः पश्यादेशः अन्वयः: तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागं ललिताऽङ्गहारम् आद्यम् अप्सरसां प्रयोगं मुहूर्तम् अपश्यताम् ।
KS 7.92 उपजातिः
देवास्तदन्ते हरमूढभार्यं किरीटबद्धाञ्जलयो निपत्य । शापावसाने प्रतिपन्नमूर्त्तेर्ययाचिरे पञ्चशरस्य सेवाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): देवा इति । देवा इन्द्रादयस्तदन्ते तस्य प्रयोगदर्शनस्यान्तेऽवसान ऊढभार्यं परिणीतदारं हरं किरीटेषु बद्धा अञ्जलयो येषां ते तथोक्ताः सन्तः । निपत्य प्रणम्य शापावसाने प्रतिपन्नमूर्तेर्लब्धशरीरस्य । `परिणेष्यति पार्वती यदा` (४/४२) इत्यादिना शापस्य पार्वतीपरिणयान्तत्वादित्यर्थः । पञ्चशरस्य कामस्य कर्तुः । सेवां ययाचिरे । पुनः समासादितशरीरस्य तस्य सेवां स्वीक्रियतामिति प्रार्थयामासुरित्यर्थः । `दुह्याच्पच्`- इत्यादिना द्विकर्मकत्वम् अन्वयः: देवाः तदन्ते ऊढभार्यं हरं किरीटबद्धाऽञ्जलयः (सन्तः) निपत्य शापाऽवसाने प्रतिपन्नमूर्तेः पञ्चशरस्य सेवां ययाचिरे ।
KS 7.93 इन्द्रवज्रा
तस्यानुमेने भगवान्विमन्युर्व्यापारमात्मन्यपि सायकानाम् । काले प्रयुक्ता खलु कार्यविद्भिर्विज्णापना भर्तृषु सिद्धिमेति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति । विमन्युर्विगतक्रोधो भगवानीश्वर आत्मन्यपि तस्य कामस्य सायकानां व्यापारमनुमेने । तथाहि कार्यविद्भिः कार्यज्ञैः । अथवा कालविद्भिः अवसरज्ञैः । काले योग्यावसरे प्रयुक्तानुष्ठिता भर्तृषु स्वामिषु विषये विज्ञापना सिद्धिमेति खलु । सफला भवतीत्यर्थः । अयमेवास्य स्मरसेवास्वीकारो यदात्मन्यपि तत्सायकव्यापारमङ्गीकृतवानिति अन्वयः: विमन्युः भगवान् आत्मनि अपि तस्य सायकानां व्यापारम् अनुमेने । (तथा हि) कार्यविद्भिः कालप्रयुक्ता भर्तृषु विज्ञापना सिद्धिम् एति खलु ।
KS 7.94 मालिनी
अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य क्षितिधरपतिकन्यामाददानः करेण । कनककलशरक्शाभक्तिशोभासनाथं क्षितिविरचितशय्यं कौतुकागारमागात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथेन्दुमौलिरीश्वरस्तान्विबुधगणान्विसृज्य क्षितिधरपतिकन्यां पार्वतीं करेणाददानः कनककलशयुक्तं मङगलार्थमन्तर्निहितहेममयपूर्णकुम्भं भक्तयः पुष्पादिरचनास्तासां शोभया सनाथम् । सहितमित्यर्थः । क्षितिविरचितशय्यं क्षितौ विरचिता स्थण्डिले कल्पिता शय्या तल्पं यस्मिंस्तत्तथोक्तं कौतुकागारमगाच्छय्यागृहं जगाम । अत्राश्वलायनः-`अत ऊर्ध्वमक्षारलवणाशिनावधःशायिनौ ब्रह्मचारिणौ स्याताम्` इति । अथ ऊर्ध्व विवाहादूर्ध्वम् । आ त्रिरात्रादिति शेषः । `त्रिरात्रं द्वादशरात्रं वा ` इति वचनात् । तथा कामशास्त्रेऽपि `अथ परिणयरात्रौ प्रक्रमेणैव किञ्चित्तिसृषु च रजनीषु स्तब्धभावा दुनोति । त्रिदिनमिह न भिन्द्याद्ब्रह्मचर्यं न चास्या हृदयमननुरुध्य स्वेच्छया कर्म कुर्यात्` इति अन्वयः: अथ इन्दुमौलिः, तान् विबुधगणान् विसृज्य क्षितिधरपतिकन्यां करेण आददानः (सन्) कनककलशयुक्तं भक्तिशोभासनाथं क्षितिविरचिशय्यं कौतुकाऽगारम् अगात् ।
KS 7.95 मालिनी
नवपरिणयलज्जाभूषणां तत्र गौरीं वदनमपहरन्तीं तत्कृतोत्क्षेपमीशः । अपि शयनसखीभ्यो दत्तवाचं कथंचित्प्रमथमुखविकारैर्हासयामास गूढम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नवेति । तत्र कौतुकागार ईश ईश्वरो नवपरिणयेन नवोद्वाहेन या लज्जा सा भूषणं यस्यास्तामत एव तेनेश्वरेण कृताक्षेपं कृताकर्षणम् । उन्नमितमिति यावत् । वदनमपहरन्तीं साचीकुर्वन्तीम् । अयं लज्जाभावः । अनुभावान्तरमाह-शयनसखीभ्योऽपि शयने सहशायिनीभ्योऽपीत्यर्थः । कथंचित्कृच्छ्रेण दत्तवाचं दतोत्तरां गौरीं प्रमथा भृङ्गिरिटिप्रभृतयो हास्यरसाधिदेवताः पशुपतेः पारिषदाः । यथाह भरतः-`श्रृङ्गारो विष्णुदैवत्यो हास्यः प्रमथदैवतः` इति । `प्रमथाः स्युः पारिषदाः` इत्यमरः । तेषां मुखविकारैर्मुखविकृतचेष्टितैर्गूढप्रकाशं हासयामास । हासाद्युपायैर्लज्जामपाकर्तुं प्रवृत्तं इत्यर्थः । यथाह गोनर्दः-`हासेन मधुना नम्रवचसा लज्जितां प्रियाम् । विलुप्तलज्जां कुर्वित निपुणैश्च सखीजनैः ।` इति अन्वयः: तत्र ईशः नवपरिणयलज्जाभूषणां तत्कृताक्षेपं वदनाम् अपहरन्तीं शयनसखीभ्यः अपि कथञ्चित् दत्तवाचं गौरीं प्रमथमुखविकारैः गूढं हासयामास ।
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →