तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण । स्व एव वेषः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
तदिति । ईश्वरेण शिवेन सा मङ्गलमण्डनश्रीः शुभप्रसाधनसंपत्तद्गौरवात्तासु मातृष्वादरात्केवलं पस्पृशे स्पृष्टैव, न तु दध्रे इत्यवधारणार्थः केवलशब्दः । `केवलं चावधारणे` इति शाश्वतः । किंतु तस्य विभोर्देवस्य स एव वेषः स्वाभाविको भस्मकपालादिवेष एव परिणेतुर्लोकरुद्वोढुरिष्टमपेक्षितं भावान्तरं रुपान्तरं प्रपेदे । अङ्गरागादिरुपतां प्रापेत्यर्थः
अन्वयः:
ईश्वरेण सा मङ्गलमण्डनश्रीः तद्गौरवात् केवलं पस्पृशे । (किन्तु) तस्य विभोः स एव वेषः परिणेतुः इष्टं भावान्तरं प्रपेदे ।
Morphemic Decomposition & Padaccheda
तद्गौरवान्
तद् [pron]
तद्गौरवान्
गौरव [n]
मङ्गलमण्डनश्रीः
मङ्गल [n]
मङ्गलमण्डनश्रीः
मण्डन [n]
मङ्गलमण्डनश्रीः
श्री [f]
सा
तद् [pron]
पस्पृशे
स्पृश् [6. Ā.]
केवलम्
केवलम् [ind]
ईश्वरेण
ईश्वर [m]
स्व
स्व [adj]
एव
एव [ind]
वेषः
वेष [m]
परिणेतुर्
परिणेतृ [m]
इष्टं
इष् [1. P.]
भावान्तरं
भाव [m]
भावान्तरं
अन्तर [adj]
तस्य
तद् [pron]
विभोः
विभु [adj]
प्रपेदे
प्रपद् [4. P.]