Skip to main content
Search
Ch. 7 KS 7.55
Full Chapter
KS • Chapter 7: Canto 7

KS 7.55

Canonical Ref: KS 7.55
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
स प्रीतियोगाद्विकसन्मुखश्रीर्जामातुरग्रेसरतामुपेत्य । प्रावेशयन्मन्दिरम् ऋद्धमेनमागुल्फकीर्णापणमार्गपुष्पम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति । प्रीतियोगात्संतोषसंबन्धाद्विकसन्मुखश्रीर्विकसन्ती मुखश्रीर्यस्य स तथोक्तः स हिमवान् । जायां मिमीते जानातीति जामातुर्वरस्य । पृषोदरादित्वात्साधु । `जामाता दुहितुः पतिः` इत्यमरः (अ.को.2|6|32) । अग्रेसरतां पुरोगामित्वमुपेत्यैनंदेवमागुल्फं पादग्रन्थिपर्यन्तं कीर्णानि पर्यस्तान्यापणमार्गेषु पण्यवीथिकासु पुष्पाणि यस्मिंस्तदागुल्फकीर्णापणमार्गपुष्पम् । `तद्ग्रन्थी घुटके गुल्फौ` इत्यमरः (अ.को.2|6|32) । ऋद्धं समृद्धं मन्दिरं नगरम् । `मन्दिरं नगरेऽगारे मन्दिरो मकरालये` । इति विश्वः । प्रावेशयत् अन्वयः: प्रीतियोगात् विकसन्मुखश्रीः स जामातुः अग्रेसरताम् उपेत्य एनम् आगुल्फकीर्णापणमार्गपुष्पम् ऋद्धं मन्दिरं प्रावेशयत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
स
Lemma: तद्
POS: pron
प्रीतियोगाद्
Lemma: प्रीति
POS: f
प्रीतियोगाद्
Lemma: योग
POS: m
विकसन्मुखश्रीर्
Lemma: विकस्
POS: 1. P.
विकसन्मुखश्रीर्
Lemma: मुख
POS: n
विकसन्मुखश्रीर्
Lemma: श्री
POS: f
जामातुर्
Lemma: जामातृ
POS: m
अग्रेसरताम्
Lemma: अग्रेसर
POS: adj
अग्रेसरताम्
Lemma: ता
POS: f
उपेत्य
Lemma: उपे
POS: 2. Ā.
प्रावेशयन्
Lemma: प्रवेशय्
POS: 10. Ā. • Verb: प्रावेशयत्
मन्दिरम्
Lemma: मन्दिर
POS: n
ऋद्धम्
Lemma: ऋध्
POS: 5. Ā.
एनम्
Lemma: एनद्
POS: pron
आ
Lemma: आ
POS: ind
गुल्फकीर्णापणमार्गपुष्पम्
Lemma: गुल्फ
POS: m
गुल्फकीर्णापणमार्गपुष्पम्
Lemma: कृ
POS: 6. Ā.
गुल्फकीर्णापणमार्गपुष्पम्
Lemma: आपण
POS: m
गुल्फकीर्णापणमार्गपुष्पम्
Lemma: मार्ग
POS: m
गुल्फकीर्णापणमार्गपुष्पम्
Lemma: पुष्प
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 7.55. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.54) All Verses in Chapter 7 Next Verse (KS 7.56) →