Skip to main content
Search
Ch. 7 KS 7.57
Full Chapter
KS • Chapter 7: Canto 7

KS 7.57

Canonical Ref: KS 7.57
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बन्धुं न संभावित एव तावत्करेण रुद्धोऽपि न केशपाशः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): आलोकमार्गमिति । आलोकमार्गं दर्शनपथम् । गवाक्षमित्यर्थः । सहसा व्रजन्त्या कयाचिदुद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनोऽत एव वान्तमाल्य उद्गीर्णमाल्यश्च यः स उद्वेष्टनवान्तमाल्यः करेण रुद्धो गृहीतः । अपि च केशपाशः केशकलापः । `पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे` इत्यमरः (अ.को.2|6|99) । तावदालोकनमार्गप्राप्तिपर्यन्तं बद्धुम् । बन्धनायेत्यर्थः । न संभावितो न स्मृत एव अन्वयः: आलोकमार्गं सहसा व्रजन्त्या कयाचित् उद्वेष्टनवान्तमाल्यः करेण रुद्धः अपि केशपाशः तावत् बद्धुं न संभावित एव ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
आलोकमार्गं
Lemma: आलोक
POS: m
आलोकमार्गं
Lemma: मार्ग
POS: m
सहसा
Lemma: सहसा
POS: ind
व्रजन्त्या
Lemma: व्रज्
POS: 1. Ā.
कयाचिद्
Lemma: कश्चित्
POS: pron
उद्वेष्टनवान्तमाल्यः
Lemma: उद्वेष्टन
POS: n
उद्वेष्टनवान्तमाल्यः
Lemma: वम्
POS: 1. Ā.
उद्वेष्टनवान्तमाल्यः
Lemma: माल्य
POS: n
बन्धुं
Lemma: बन्धु
POS: m
न
Lemma: न
POS: ind
संभावित
Lemma: सम्भावय्
POS: 10. Ā.
एव
Lemma: एव
POS: ind
तावत्
Lemma: तावत्
POS: ind
करेण
Lemma: कर
POS: m
रुद्धो
Lemma: रुध्
POS: 6. P.
ऽपि
Lemma: अपि
POS: ind
न
Lemma: न
POS: ind
केशपाशः
Lemma: केशपाश
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 7.57. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.56) All Verses in Chapter 7 Next Verse (KS 7.58) →