Skip to main content
Search
Ch. 7 KS 7.44
Full Chapter
KS • Chapter 7: Canto 7

KS 7.44

Canonical Ref: KS 7.44
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् । विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): एकैवेति । सैकैव मूर्तिस्त्रिघा ब्रह्मविष्णुशिवात्मकत्वेन बिभिदे । औपाधिकोऽयं भेदो न वास्तविक इत्यर्थः । अत एवैषां त्रयाणां प्रथमावरयोर्भावः प्रथमावरत्वं ज्येष्ठकनिष्ठभावः । सामान्यं साधारणम् । इच्छया सर्वे ज्येष्ठा भवन्ति कनिष्ठाश्चेत्यर्थः । एतदेव विवृणोति-कदाचिद्धरो विष्णोराद्यः । कदाचिद्धरिस्तस्याद्यः । कदाचिद्वेधास्तथोर्हरिहरयोराद्यः । कदाचित्तौ हरिहरावपि धातुः स्त्रष्टुराद्यौ । एवमेतेषां पौर्वापर्यमनियतमिति दर्शितम् अन्वयः: सा एका एव मूर्तिः त्रिधा बिभिदे । एषां प्रथमाऽवरत्वं सामान्यम् । कदाचित् हरः विषणोः अद्यः, कदाचित् हरिः तस्य आद्यः, कदाचित् वेधाः तयोः आद्यः, कदाचित् तौ द्वो अपि धातुः आद्यौ ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
एकैव
Lemma: एक
POS: pron
एकैव
Lemma: एव
POS: ind
मूर्तिर्
Lemma: मूर्ति
POS: f
बिभिदे
Lemma: भिद्
POS: 6. P. • Verb: बिभिदे
त्रिधा
Lemma: त्रिधा
POS: ind
सा
Lemma: तद्
POS: pron
सामान्यम्
Lemma: सामान्य
POS: adj
एषां
Lemma: इदम्
POS: pron
प्रथमावरत्वम्
Lemma: प्रथम
POS: adj
प्रथमावरत्वम्
Lemma: अवर
POS: adj
प्रथमावरत्वम्
Lemma: त्व
POS: n
विष्णोर्
Lemma: विष्णु
POS: m
हरस्
Lemma: हर
POS: m
तस्य
Lemma: तद्
POS: pron
हरिः
Lemma: हरि
POS: m
कदाचिद्
Lemma: कदाचिद्
POS: ind
वेधास्
Lemma: वेध
POS: mn
तयोस्
Lemma: तद्
POS: pron
ताव्
Lemma: तद्
POS: pron
अपि
Lemma: अपि
POS: ind
धातुर्
Lemma: धातु
POS: mn
आद्यौ
Lemma: आद्य
POS: adj
Canonical CTS URN Reference
Kumārasambhavam, KS 7.44. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.43) All Verses in Chapter 7 Next Verse (KS 7.45) →