Skip to main content
Search
Ch. 7 KS 7.45
Full Chapter
KS • Chapter 7: Canto 7

KS 7.45

Canonical Ref: KS 7.45
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः । दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तमिति । पुरुहूतमुख्या इन्द्रादयो लोकपालाः श्रीलक्षणानामैश्वर्यचिह्नानां छत्त्रचामरवाहनानामुत्सर्गेण त्यागेन विनीतवेषा अनुनीतवेषाः सन्तः । तथा दृष्टिप्रदाने दर्शननिमित्ते । दर्शनप्रदानार्थमित्यर्थः । कृता नन्दिनः प्रतिहारस्य संज्ञा संकेतो यैस्तादृशाः । मम दर्शनं दापयेति नन्दिनं प्रति कृतहस्तादिसूचना इत्यर्थः । `संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना` इत्यमरः (अ.को.3|3|40) । तद्दर्शितास्तेन नन्दिना दर्शिता अयमिन्द्रः प्रणमत्ययं चन्द्र इत्याद्युक्तिपूर्वकं निवेदिताः प्राञ्जलयः कृताञ्जलयः सन्तः तं भवं प्रणेमुः प्रणताः अन्वयः: पुरुहूतमुख्या लोकपाला, श्रीलक्षणोत्सर्गविनीतवेषाः (सन्तः) द्दष्टिप्रदाने कृतनन्दिसंज्ञाः तद्दर्शिताः प्राञ्जलयः (सन्तः) प्रणेमुः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तं
Lemma: तद्
POS: pron
लोकपालाः
Lemma: लोकपाल
POS: m
पुरुहूतमुख्याः
Lemma: पुरुहूत
POS: m
पुरुहूतमुख्याः
Lemma: मुख्य
POS: adj
श्रीलक्षणोत्सर्गविनीतवेषाः
Lemma: श्री
POS: f
श्रीलक्षणोत्सर्गविनीतवेषाः
Lemma: लक्षण
POS: n
श्रीलक्षणोत्सर्गविनीतवेषाः
Lemma: उत्सर्ग
POS: m
श्रीलक्षणोत्सर्गविनीतवेषाः
Lemma: विनी
POS: 1. Ā.
श्रीलक्षणोत्सर्गविनीतवेषाः
Lemma: वेष
POS: m
दृष्टिप्रदाने
Lemma: दृष्टि
POS: f
दृष्टिप्रदाने
Lemma: प्रदान
POS: n
कृतनन्दिसंज्ञास्
Lemma: कृ
POS: 2. Ā.
कृतनन्दिसंज्ञास्
Lemma: नन्दिन्
POS: m
कृतनन्दिसंज्ञास्
Lemma: संज्ञा
POS: f
तद्दर्शिताः
Lemma: तद्
POS: pron
तद्दर्शिताः
Lemma: दर्शय्
POS: 10. Ā.
प्राञ्जलयः
Lemma: प्राञ्जलि
POS: adj
प्रणेमुः
Lemma: प्रणम्
POS: 1. Ā. • Verb: प्रणेमुः
Canonical CTS URN Reference
Kumārasambhavam, KS 7.45. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.44) All Verses in Chapter 7 Next Verse (KS 7.46) →