Skip to main content
Search
Ch. 7 KS 7.33
Full Chapter
KS • Chapter 7: Canto 7

KS 7.33

Canonical Ref: KS 7.33
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
शङ्खान्तरद्योति विलोचनं यदन्तर्निविष्टामलपिङ्गतारम् । सान्निध्यपक्षे हरितालमय्यास्तदेव जातं तिलकक्रियायाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): शङ्खेति । शङ्खान्तरे ललाटास्थिमध्ये द्योतत इति तथोक्तम् । `श्ङ्खो निधौ ललाटास्थ्नि` इत्यमरः (अ.को.2|6|93) । अन्तर्निविष्टा मध्यगतामला पिङ्गा तारा कनीनिका यस्य तत्तथोक्तम् । `तारकाक्ष्णः कनीनिका` इत्यमरः (अ.को.2|6|93) । यद्विलोचनं तद्विलोचनमेव हरितालमय्या वर्णद्रव्यविशेषविकारस्य तिलकक्रिययास्तिलकरचनायाः संनिधिरेव सांनिध्यं तदेव पक्षः साध्यम् । `पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु` इति यादवः । तस्मिन् सांनिध्यपक्षे जातम्, प्रविष्टमित्यर्थः । अनेन ललाटलोचनमेव तस्य हरितालतिलकमभूदित्युक्तम् अन्वयः: शङ्खाऽन्तरद्योति अन्तर्निविष्टाऽमलपिङ्गतारं यद् विलोचनं तत् एव हरितालमय्याः तिलकक्रियायाः सान्निध्यपक्षे जातम् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
शङ्खान्तरद्योति
Lemma: शङ्खान्तर
POS: n
शङ्खान्तरद्योति
Lemma: द्योतिन्
POS: adj
विलोचनं
Lemma: विलोचन
POS: n
यद्
Lemma: यद्
POS: pron
अन्तर्निविष्टामलपिङ्गतारम्
Lemma: अन्तर्
POS: ind
अन्तर्निविष्टामलपिङ्गतारम्
Lemma: निविश्
POS: 6. Ā.
अन्तर्निविष्टामलपिङ्गतारम्
Lemma: अमल
POS: adj
अन्तर्निविष्टामलपिङ्गतारम्
Lemma: पिङ्ग
POS: adj
अन्तर्निविष्टामलपिङ्गतारम्
Lemma: तार
POS: mn
सान्निध्यपक्षे
Lemma: सांनिध्य
POS: n
सान्निध्यपक्षे
Lemma: पक्ष
POS: m
हरितालमय्यास्
Lemma: हरिताल
POS: mfn
हरितालमय्यास्
Lemma: मय
POS: adj
तद्
Lemma: तद्
POS: pron
एव
Lemma: एव
POS: ind
जातं
Lemma: जन्
POS: 4. P.
तिलकक्रियायाः
Lemma: तिलक
POS: m
तिलकक्रियायाः
Lemma: क्रिया
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 7.33. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.32) All Verses in Chapter 7 Next Verse (KS 7.34) →