Skip to main content
Search
Ch. 7 KS 7.32
Full Chapter
KS • Chapter 7: Canto 7

KS 7.32

Canonical Ref: KS 7.32
Metrical Form: उपेन्द्रवज्रा
Sanskrit (Devanāgarī)
बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः । उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): बभूवेति । भस्मैव सिताङ्गरागः शुभ्रगन्धानुलेपनं बभूव । कपालमेवामलं शेखरं शिरोभूषणं तस्य श्रीः शोभा बभूव । गजाजिनस्येवोपान्तभागेष्वञ्चलप्रदेशेषु रोचनैवाङ्को हंसादिचिह्नं यस्य स तथोक्तो दुकूलभावः पटांशुकत्वं च बभूव । भस्मादिकमेवाङ्गरागादिभावं प्राप्तमित्यर्थः अन्वयः: भस्म एव सिताऽङ्गरागः, कपालम् एव अमलशेखरश्रीः, गजाऽजिनस्य एव उपान्तभागेषु रोचनाङ्को दुकूलभावश्च बभूव ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
बभूव
Lemma: भू
POS: 1. Ā. • Verb: बभूव
भस्मैव
Lemma: भस्मन्
POS: n
भस्मैव
Lemma: एव
POS: ind
सिताङ्गरागः
Lemma: सित
POS: adj
सिताङ्गरागः
Lemma: अङ्गराग
POS: m
कपालम्
Lemma: कपाल
POS: mn
एवामलशेखरश्रीः
Lemma: एव
POS: ind
एवामलशेखरश्रीः
Lemma: अमल
POS: adj
एवामलशेखरश्रीः
Lemma: शेखर
POS: m
एवामलशेखरश्रीः
Lemma: श्री
POS: f
उपान्तभागेषु
Lemma: उपान्त
POS: n
उपान्तभागेषु
Lemma: भाग
POS: m
च
Lemma: च
POS: ind
रोचनाङ्को
Lemma: रोचना
POS: f
रोचनाङ्को
Lemma: अङ्क
POS: mn
गजाजिनस्यैव
Lemma: गज
POS: m
गजाजिनस्यैव
Lemma: अजिन
POS: n
गजाजिनस्यैव
Lemma: एव
POS: ind
दुकूलभावः
Lemma: दुकूल
POS: n
दुकूलभावः
Lemma: भाव
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 7.32. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.31) All Verses in Chapter 7 Next Verse (KS 7.33) →