Skip to main content
Search
Ch. 7 KS 7.52
Full Chapter
KS • Chapter 7: Canto 7

KS 7.52

Canonical Ref: KS 7.52
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तम् ऋद्धिमद्बन्धुजनाधिरूढैर्वृन्दैर्गजानां गिरिचक्रवर्ती । प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तमिति । आगमनेन शिवागमनेन प्रतीतो हृष्टो गिरिचक्रवर्ती पर्वताधिराजो हिमवानृद्धिमता वस्त्रालङ्कारादिसमृद्धेन बन्धुजनेनाधिरुढैः । अनेन बन्धूनां समसाम्यं सूचितम् । गजानां वृन्दैः प्रफुल्ला विकसितकुसुमा वृक्षा येषु तैः स्वैः स्वकीयैः कटकैर्नितम्बैरिव तं हरं प्रत्युज्जगामाभिययौ । `कटकोऽस्त्री नितम्बोऽद्रेः` इत्यमरः अन्वयः: आगमनप्रतीतः गिरिचक्रवर्ती ऋद्धिमद्बन्धुजनाऽधिरुढैः गजानां वृन्दैः प्रफुल्लवृक्षैः स्वैः कटकैः इव तं प्रत्युज्जगाम ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तम्
Lemma: तद्
POS: pron
ऋद्धिमद्बन्धुजनाधिरूढैर्
Lemma: ऋद्धिमत्
POS: adj
ऋद्धिमद्बन्धुजनाधिरूढैर्
Lemma: बन्धु
POS: m
ऋद्धिमद्बन्धुजनाधिरूढैर्
Lemma: जन
POS: m
ऋद्धिमद्बन्धुजनाधिरूढैर्
Lemma: अधिरुह्
POS: 1. Ā.
वृन्दैर्
Lemma: वृन्द
POS: n
गजानां
Lemma: गज
POS: m
गिरिचक्रवर्ती
Lemma: गिरिचक्रवर्तिन्
POS: m
प्रत्युज्जगामागमनप्रतीतः
Lemma: प्रत्युद्गम्
POS: 1. P. • Verb: प्रत्युज्जगाम
प्रत्युज्जगामागमनप्रतीतः
Lemma: आगमन
POS: n
प्रत्युज्जगामागमनप्रतीतः
Lemma: प्रती
POS: 2. P.
प्रफुल्लवृक्षैः
Lemma: प्रफुल्ल
POS: adj
प्रफुल्लवृक्षैः
Lemma: वृक्ष
POS: m
कटकैर्
Lemma: कटक
POS: mn
इव
Lemma: इव
POS: ind
स्वैः
Lemma: स्व
POS: adj
Canonical CTS URN Reference
Kumārasambhavam, KS 7.52. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.51) All Verses in Chapter 7 Next Verse (KS 7.53) →