पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति । भावसाध्वसपरिग्रहादभूत्कामदोहदमनोहरं वपुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
पाणीति । पाणिपीडनविधेरनन्तरं पाणिग्रहणानन्तरम् । विधेरिति पञ्चमी षष्ठी च । उभयथाप्यनुशासनसंभवादित्युक्तं प्राक् । शैलराजदुहितुः पार्वत्याः कर्त्र्याः तं हरं प्रति भावसाध्वसपरिग्रहन्मनोहरं चित्ताकर्षकं कामदोहदम् । कामसंवर्धकमित्यर्थः । `तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्` इति शब्दार्णवे । तच्च तत्सुखं कामदोहदसुखमभूत् । हरस्येति शेषः । नायिकानायकयोरन्योन्यानुभवदर्शनात्सुखमाविर्भवति । तच्च मदनोद्दीपकमिति रसविदां स्थितिः । तथा च हरस्य गौर्या नवोढाया स्वगोचरभावप्रत्युक्तसाध्वसदर्शनात्सुखमाविर्भवति । तच्च मदनाकारं प्रादुर्बभूवेत्यर्थः । तत्र रसभावस्थायिनः कार्यमनुभावः । तदुक्तम्--`रसागच्छन्ति संस्थानं यत्कार्यमुपलक्ष्यते । सोऽनुभावः.......... संस्थासूचकः ।` इति
अन्वयः:
पाणिपीडनविधेः अनन्तरं शैलराजदुहितुः भावसाध्वसपरिग्रहात् शैलराज दुहितुः वपुः हरं प्रति कामदोहदमनोहरम् अभूत् ।
Morphemic Decomposition & Padaccheda
पाणिपीडनविधेर्
पाणिपीडन [n]
पाणिपीडनविधेर्
विधि [m]
अनन्तरं
अनन्तरम् [ind]
शैलराजदुहितुर्
शैलराज [m]
शैलराजदुहितुर्
दुहितृ [f]
हरं
हर [m]
प्रति
प्रति [ind]
भावसाध्वसपरिग्रहाद्
भाव [m]
भावसाध्वसपरिग्रहाद्
साध्वस [n]
भावसाध्वसपरिग्रहाद्
परिग्रह [m]
अभूत्
भू [1. Ā.]
कामदोहदमनोहरं
काम [m]
कामदोहदमनोहरं
दोहद [m]
कामदोहदमनोहरं
मनोहर [adj]
वपुः
वपुस् [n]