Skip to main content
Search
Full Chapter
KS • Chapter 8: Canto 8

KS 8.3

Canonical Ref: KS 8.3
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
कैतवेन शयिते कुतूहलात्पार्वती प्रतिमुखं निपातितम् । चक्षुरुन्मिषति सस्मितं प्रिये विद्युदाहतमिव न्यमीलयत् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): कैतवेनेति । प्रिये भर्तरि कुतूहलात् । एषा किं करिष्यतीति बुभुत्सयेत्यर्थः । कैतवेन कपटेन शयिते सुप्ते सति पार्वती कर्त्री प्रतिमुखं यथा निपातितम् । प्रियस्वापपरीक्षार्थं तदभिमुखं प्रवर्तितमित्यर्थः । चक्षुः स्वदृष्टिं सस्मितमुन्मिषति । पुनः प्रिये सहासं पश्यतीत्यर्थः । विद्युदाहतं विद्युता प्रतिहतमिव न्यमीलयत् । साध्वसादिति भावः । एतेन किंचित्साध्वसस्यापचयो व्यज्यते अन्वयः: पार्वती प्रिये कुतूहलात् कैतवेन शयिते (सति) मुखं प्रति निपातितं चक्षुः सस्मितम् उन्मिषति, विद्युता आहतम् इव न्यमीलयत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
कैतवेन
Lemma: कैतव
POS: n
शयिते
Lemma: शी
POS: 1. Ā.
कुतूहलात्
Lemma: कुतूहल
POS: n
पार्वती
Lemma: पार्वती
POS: f
प्रतिमुखं
Lemma: प्रतिमुख
POS: adj
निपातितम्
Lemma: निपातय्
POS: 10. Ā.
चक्षुर्
Lemma: चक्षुस्
POS: n
उन्मिषति
Lemma: उन्मिष्
POS: 6. P. • Verb: उन्मिषति
सस्मितं
Lemma: स
POS: ind
सस्मितं
Lemma: स्मित
POS: n
प्रिये
Lemma: प्रिय
POS: adj
विद्युदाहतम्
Lemma: विद्युत्
POS: fn
विद्युदाहतम्
Lemma: आहन्
POS: 2. Ā.
इव
Lemma: इव
POS: ind
न्यमीलयत्
Lemma: निमीलय्
POS: 10. Ā. • Verb: न्यमीलयत्
Canonical CTS URN Reference
Kumārasambhavam, KS 8.3. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.2) All Verses in Chapter 8 Next Verse (KS 8.4) →