Skip to main content
Search
Ch. 8 KS 8.15
Full Chapter
KS • Chapter 8: Canto 8

KS 8.15

Canonical Ref: KS 8.15
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
भावसूचितमदृष्टविप्रियं चाटुमत्क्षणवियोगकातरम् । कैश्चिदेव दिवसैस्तदा तयोः प्रेम रूढमितरेतराश्रयम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): भावेति । तयोः शिवयोः कैश्चित्कतिभिश्चिदेव दिवसैः । भावसूचितं भावैश्चेष्टाभिः कटाक्षनिक्षेपादिभिः सूचितं ज्ञापितं विप्रियमप्रियाचरणं यत्र तत्तथोक्तम् । चाटूनि प्रियोक्तयो यस्मिन्सन्ति तच्चाटुमत् भूतार्थे मतुप् । क्षणवियोगात्क्षणमात्रविरहादपि कातरं भीरुत्वम् । इतरेतराश्रयमन्योन्यविषयं प्रेम । प्रेमपदाभिलष्याऽङ्कुरावस्था भवतीत्यर्थः । गूढमभूत् । क्रमेणानुरागपदाभिलष्यां प्राप्तमित्यर्थः । तदेतत्सर्वं स्फुटीकृतं भूपालेन- (अङ्कुरपल्लवकलिकाप्रसूनफलभागियम्) इत्यादिना । एका रतिरेव स्थायीभूता रसो भवति तस्याश्चाङ्कुरावस्थाभेदोपपत्तौ सा प्रेमादिपदैरभिलष्यत इत्यर्थः । `सप्रेमभेदरहितं यूनोर्यद्भावबन्धनम् । भावो रती राग एव स्वसंवेद्यदशाप्राप्तयावदाश्रयवृत्तिश्चेदनुरागः` इति मानादिलक्षणं विस्तरभयान्न लिख्यत इत्याकर एव द्रष्टव्यम् अन्वयः: तयोः भावसूचितम् अदृष्टविप्रियं चाटुमत् क्षणवियोगकातरं गूढं तयोः प्रेम कैश्चित् एव दिवसैः इतरेतराश्रयम् (अभूत्) ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
भावसूचितम्
Lemma: भाव
POS: m
भावसूचितम्
Lemma: सूचय्
POS: Denom. P.
अदृष्टविप्रियं
Lemma: अदृष्ट
POS: adj
अदृष्टविप्रियं
Lemma: विप्रिय
POS: n
चाटुमत्
Lemma: चाटुमत्
POS: adj
क्षणवियोगकातरम्
Lemma: क्षण
POS: m
क्षणवियोगकातरम्
Lemma: वियोग
POS: m
क्षणवियोगकातरम्
Lemma: कातर
POS: adj
कैश्चिद्
Lemma: कश्चित्
POS: pron
एव
Lemma: एव
POS: ind
दिवसैस्
Lemma: दिवस
POS: mn
तदा
Lemma: तदा
POS: ind
तयोः
Lemma: तद्
POS: pron
प्रेम
Lemma: प्रेमन्
POS: mn
रूढम्
Lemma: रुह्
POS: 6. Ā.
इतरेतराश्रयम्
Lemma: इतरेतर
POS: adj
इतरेतराश्रयम्
Lemma: आश्रय
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 8.15. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.14) All Verses in Chapter 8 Next Verse (KS 8.16) →