Skip to main content
Search
Ch. 8 KS 8.14
Full Chapter
KS • Chapter 8: Canto 8

KS 8.14

Canonical Ref: KS 8.14
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
सस्वजे प्रियमुरोनिपीडिता प्रार्थितं मुखमनेन नाहरत् । मेखलापणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): सस्वज इति । सा पार्वत्युरसोनिपीडनं यस्मिन्कर्मणि यथा स्तात्तथा प्रियं सस्वजे आलिङ्गितवती । न तु निष्पन्दमास्तेत्यर्थः । अनेन स्मरातिशयः सूचितः । तथाऽनेन प्रियेण प्रार्थितं चुम्बनार्थं याचितम् । `याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः` इति केशवः । मुखं नाहरत् नाऽवक्रयत् । मेखलायां प्रणयः परिचयः । `प्रणयः स्यात्परिचये याच्ञायां सुहृदेऽपि च` इति यादवः । तत्र लोलतां चञ्चलतां गतमस्य हस्तं शिथिलं मन्दं रुरोध न्यवारयत् । न तु निर्भरमिति भावः । अत्र सहनप्रतीकाराभ्यां तुल्यलज्जास्मरत्वं व्यज्यते अन्वयः: सा उरोनिपीडनं प्रियं सस्वजे, अनेन प्रार्थितं मुखं न अहरत्, मेखलाप्रणयलोलतां गतम् अस्य हस्तं शिथिलं रुरोध ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
सस्वजे
Lemma: स्वज्
POS: 1. P. • Verb: सस्वजे
प्रियम्
Lemma: प्रिय
POS: adj
उरोनिपीडिता
Lemma: उरस्
POS: n
उरोनिपीडिता
Lemma: निपीडय्
POS: 10. P.
प्रार्थितं
Lemma: प्रार्थय्
POS: Denom. Ā.
मुखम्
Lemma: मुख
POS: n
अनेन
Lemma: इदम्
POS: pron
नाहरत्
Lemma: न
POS: ind
नाहरत्
Lemma: आहृ
POS: 1. Ā. • Verb: आहरत्
गतं
Lemma: गम्
POS: 6. Ā.
हस्तम्
Lemma: हस्त
POS: mn
अस्य
Lemma: इदम्
POS: pron
शिथिलं
Lemma: शिथिल
POS: adj
रुरोध
Lemma: रुध्
POS: 6. P. • Verb: रुरोध
सा
Lemma: तद्
POS: pron
Canonical CTS URN Reference
Kumārasambhavam, KS 8.14. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.13) All Verses in Chapter 8 Next Verse (KS 8.15) →