Skip to main content
Search
KS
Kumārasambhavam • Chapter 08

Canto 8

अष्टमः सर्गः

Canto 8 of Kumārasambhavam.

Total: 91 Verses • Citations: KS 8.1–91 • 1 Lexicon Terms • Page 4 of 4 (Verses 1 shown)
KS 8.91 मालिनी
समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः शतमगमद् ऋतूनां साग्रमेका निशेव । न तु सुरतसुखेषु छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस्तज्जलेषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): समेति । निशीथोऽत्र निशामात्रलक्षकः । समदिवसनिशीथं तुल्याहर्निशं यथा तथा तत्र तस्यां पार्वत्यां सङ्गिन आसक्तस्य । रात्रिंदिवं रममाणस्येत्यर्थः । शम्भोः शिवस्य साग्रं किञ्चित्साधिकसंख्यमृतूनां शतं पञ्चाशदुत्तरं मानुषमानेन पञ्चविंशतिवर्षाण्येका निशेवागमत् । स शम्भुः समुद्रान्तर्गतः समुद्रस्यान्तर्वृत्तिर्ज्वलनो वडवाग्निरिव तज्जलौघैस्तस्य प्रवाहैरिव सुरतसुखेभ्यश्छिन्नतृष्णो निवृताभिलाषो न बभूव । किन्तु चिरमवर्धतेत्यर्थः अन्वयः: समदिवसनिशीथं तत्र सङ्गिनः शम्भोः साग्रम् ऋतूनां शतम् एका निशा इव अगमत् । स समुद्राऽन्तर्गतः ज्वलन इव जलोघैः छिन्नतृष्णो न बभूव ।
← Previous (Ch. 7) Full Table of Contents