Skip to main content
Search
Full Chapter
KS • Chapter 8: Canto 8

KS 8.9

Canonical Ref: KS 8.9
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
यन्मुखग्रहणमक्षताधरं दत्तमव्रणपदं नखं च यत् । यद्रतं च सदयं प्रियस्य तत्पार्वती विषहते स्म नेतरत् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): यदिति । पार्वती प्रियस्य संबन्ध्यक्षतोऽखण्टितोऽधरो यस्मिंस्तत्तथोक्तं यन्मुखग्रहणं मुखचुम्बनम् । अव्रणपदं लक्ष्मरहितम् । `पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु` इत्यमरः (अ.को.3|3|101) । दत्तं यच्च नखं नखकर्म । यत्सदयं रतं तत्सर्वं विषहते सहते स्म । नेतरद्विपरीतम् । प्रचण्डमिति यावत् । तच्चुम्बनं नखं सुरतं वा न सहते स्म । नवोढात्वादिति हृदयम् । तदुक्तं रतिरहस्ये-(नात्यन्तमानुलोम्येन न चातिप्रतिलोमतः । सिद्धिं गच्छन्ति वा तस्मान्मध्येन साधयेदिति । नवोढाम्) इति अन्वयः: पार्वती प्रियस्य अक्षताऽधरं यत् मुखग्रहणम् अव्रणपदं यत् नखं, सदयं यत् रतं तत् विषहते स्म इतरत् न (विषहते स्म) ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
यन्
Lemma: यद्
POS: pron
मुखग्रहणम्
Lemma: मुख
POS: n
मुखग्रहणम्
Lemma: ग्रहण
POS: n
अक्षताधरं
Lemma: अक्षत
POS: adj
अक्षताधरं
Lemma: अधर
POS: m
दत्तम्
Lemma: दा
POS: 1. Ā.
अव्रणपदं
Lemma: अव्रण
POS: adj
अव्रणपदं
Lemma: पद
POS: mn
नखं
Lemma: नख
POS: mn
च
Lemma: च
POS: ind
यत्
Lemma: यद्
POS: pron
यद्
Lemma: यद्
POS: pron
रतं
Lemma: रत
POS: n
च
Lemma: च
POS: ind
सदयं
Lemma: स
POS: ind
सदयं
Lemma: दया
POS: f
प्रियस्य
Lemma: प्रिय
POS: adj
तत्
Lemma: तद्
POS: pron
पार्वती
Lemma: पार्वती
POS: f
विषहते
Lemma: विषह्
POS: 1. P. • Verb: विषहते
स्म
Lemma: स्म
POS: ind
नेतरत्
Lemma: न
POS: ind
नेतरत्
Lemma: इतर
POS: pron
Canonical CTS URN Reference
Kumārasambhavam, KS 8.9. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.8) All Verses in Chapter 8 Next Verse (KS 8.10) →