Skip to main content
Search
Ch. 8 KS 8.11
Full Chapter
KS • Chapter 8: Canto 8

KS 8.11

Canonical Ref: KS 8.11
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । प्रेक्ष्य बिम्बमनु बिम्बमात्मनः कानि कानि न चकार लज्जया ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): दर्पण इति । किंचेति चार्थः । दर्पणे मुकुरे परिभौगो नखक्षतादिसंभोगचिह्नं पश्यतीति परिभोगदर्शिनी सा पार्वती पृष्ठतः पश्चाद्भागे निषेदुषः स्थितवतः । सदेः वक्सुः । प्रणयिनः प्रियस्य हरस्य बिम्बं प्रतिबिम्बम् । दर्पणे संक्रान्तमित्यर्थः । आत्मनः स्वस्य बिम्बमनु । प्रतिबिम्बस्य पृष्ठत इत्यर्थः । `अनुर्लक्षणे` (पा.1|4|84) इति कर्मप्रवचनीयत्वाद्द्वितीया । प्रेक्ष्य लज्जया । स्वचापलप्राकट्यकृतयेत्यर्थः । कानि कानि यानि यानि भेदवाच्यानि । अङ्गसंवरणादिचेष्टितानीत्यर्थः । उक्तं च-(लज्जानुभावेन साचीकृता वर्णवैवर्ण्याधोमुखादिकृत्) इति । न चकार अन्वयः: दर्पणे च परिभोगदर्शिनी सा पृष्ठतो निषेदुषः प्रणयिनो बिम्बम् आत्मनो बिम्बम् अनु प्रेक्ष्य लज्जया कानि कानि न चकार ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
दर्पणे
Lemma: दर्पण
POS: m
च
Lemma: च
POS: ind
परिभोगदर्शिनी
Lemma: परिभोग
POS: m
परिभोगदर्शिनी
Lemma: दर्शिन्
POS: adj
पृष्ठतः
Lemma: पृष्ठतस्
POS: ind
प्रणयिनो
Lemma: प्रणयिन्
POS: adj
निषेदुषः
Lemma: निषद्
POS: 1. Ā.
प्रेक्ष्य
Lemma: प्रेक्ष्
POS: 1. P.
बिम्बम्
Lemma: बिम्ब
POS: mn
अनु
Lemma: अनु
POS: ind
बिम्बम्
Lemma: बिम्ब
POS: mn
आत्मनः
Lemma: आत्मन्
POS: m
कानि
Lemma: क
POS: pron
कानि
Lemma: क
POS: pron
न
Lemma: न
POS: ind
चकार
Lemma: कृ
POS: 2. Ā. • Verb: चकार
लज्जया
Lemma: लज्जा
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 8.11. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.10) All Verses in Chapter 8 Next Verse (KS 8.12) →