Skip to main content
Search
Full Chapter
KS • Chapter 8: Canto 8

KS 8.6

Canonical Ref: KS 8.6
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अपीति । अथाप्रवृत्तये संलापप्रवर्तनायावस्तुन्यप्रस्तुतार्थेऽपि प्रश्नतत्परम् । यत्किंचित्पृच्छन्तमित्यर्थः । अनङ्गशासनमीश्वरं पार्वती वीक्षितेन । न तु वाचेत्यर्थः । परिगृह्याङ्गीकृत्य मूर्धकम्पमयं शिरःकम्पस्वरुपम् । स्वर्थे मयट् । उत्तरं ददौ । नतु वाङ्मयं साध्वसादिति भावः । विहृतनामा लज्जानुभाव उक्तः । तदुक्तम् रतिरहस्ये-- (ईर्ष्यामानातिलज्जाभ्यां न दत्तं योग्यमुत्तरम् । क्रियया व्यज्यते यत्र विहृतं तदुदीरितम् ।) इति अन्वयः: कथाप्रवृत्तये अवस्तुनि अपि प्रश्वतत्परम् अनङ्गशासनं पार्वती वीक्षितेन परिगृह्य मूर्धकम्पमयम् उत्तरं ददौ ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अप्य्
Lemma: अपि
POS: ind
अवस्तुनि
Lemma: अवस्तु
POS: n
कथाप्रवृत्तये
Lemma: कथा
POS: f
कथाप्रवृत्तये
Lemma: प्रवृत्ति
POS: f
प्रश्नतत्परम्
Lemma: प्रश्न
POS: m
प्रश्नतत्परम्
Lemma: तत्पर
POS: adj
अनङ्गशासनम्
Lemma: अनङ्ग
POS: m
अनङ्गशासनम्
Lemma: शासन
POS: n
वीक्षितेन
Lemma: वीक्षित
POS: n
परिगृह्य
Lemma: परिग्रह्
POS: 9. Ā.
पार्वती
Lemma: पार्वती
POS: f
मूर्धकम्पमयम्
Lemma: मूर्धन्
POS: m
मूर्धकम्पमयम्
Lemma: कम्प
POS: m
मूर्धकम्पमयम्
Lemma: मय
POS: adj
उत्तरं
Lemma: उत्तर
POS: n
ददौ
Lemma: दा
POS: 1. Ā. • Verb: ददौ
Canonical CTS URN Reference
Kumārasambhavam, KS 8.6. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.5) All Verses in Chapter 8 Next Verse (KS 8.7) →