अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
अर्धाचितेति । सत्वरं सवेगमुत्थितायाः कस्याश्चिदर्धाचिता मणिभिर्गुम्फितार्धाचिता दुर्निमिते संभ्रमाद्दुःखेन निक्षिप्ते । `डुमिञ्प्रक्षेपणे` इति धातोः कर्मणि क्तः । पदे पदे प्रतिपदम् । वीप्सायां द्विर्भावः । गलन्ती गलद्रत्ना सती रशना मेखला तदानीं तस्मिन्नवसरेऽङ्गुष्ठमूलऽर्पितं लगितं सूत्रमेव शेषो यस्याः सासीत्
अन्वयः:
सत्वरम् उत्थितायाः कस्याश्चित् अर्धाचिता रशना दुर्निमिते पदे पदे गलन्ती सती तदानीम् अङ्गुष्ठमूलाऽर्पितसूत्रशेषा आसीत् ।
Morphemic Decomposition & Padaccheda
अर्धाचिता
अर्ध [adj]
अर्धाचिता
आचि [5. Ā.]
सत्वरम्
स [ind]
सत्वरम्
त्वरा [f]
उत्थितायाः
उत्था [1. Ā.]
पदे
पद [mn]
पदे
पद [mn]
दुर्निमिते
दुर्निमित [adj]
गलन्ती
गल् [1. P.]
कस्याश्चिद्
कश्चित् [pron]
आसीद्
अस् [2. P.]
रशना
रशना [f]
तदानीम्
तदानीम् [ind]
अङ्गुष्ठमूलार्पितसूत्रशेषा
अङ्गुष्ठ [m]
अङ्गुष्ठमूलार्पितसूत्रशेषा
मूल [mn]
अङ्गुष्ठमूलार्पितसूत्रशेषा
अर्पय् [10. Ā.]
अङ्गुष्ठमूलार्पितसूत्रशेषा
सूत्र [n]
अङ्गुष्ठमूलार्पितसूत्रशेषा
शेष [mn]