Skip to main content
Search
Ch. 7 KS 7.69
Full Chapter
KS • Chapter 7: Canto 7

KS 7.69

Canonical Ref: KS 7.69
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
इत्योषधिप्रस्थविलासिनीनां शृण्वन्कथाः श्रोत्रसुखास्त्रिनेत्रः । केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयमाससाद ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इतीति । त्रिनेत्रस्त्र्यम्वकः । त्रिनेत्रत्रिनयनशब्दयोः `क्षुभ्नादिषु च` इति णत्वाभावः । इतीत्थमोषधिप्रस्थविलासिनीनां संबन्धिनीः श्रोत्रसुखाः श्रवणमधुराः कथा आलापाञ्छृण्वन्केयूरैरङ्गदैश्चूर्णीकृता लाजानां मुष्टयो यस्मिंस्तं तथोक्तम् । तत्रावकीर्णा आचारलाजा अन्तराल एवाङ्गदैश्चूर्णपेषं पिष्यन्त इति पुरन्ध्रिजनसंबन्धातिशयोक्तिः । हिमालयस्य हिमवत आलयं भवनमाससाद अन्वयः: त्रिनेत्रः इति ओषधिप्रस्थविलासिनीनां श्रोत्रसुखाः कथाः श्रृण्वन् केयूरचूर्णिकृतलाजमुष्टिं हिमालयस्य आलयं समाससाद ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
इत्य्
Lemma: इति
POS: ind
ओषधिप्रस्थविलासिनीनां
Lemma: ओषधिप्रस्थ
POS: n
ओषधिप्रस्थविलासिनीनां
Lemma: विलासिनी
POS: f
शृण्वन्
Lemma: श्रु
POS: 4. P.
कथाः
Lemma: कथा
POS: f
श्रोत्रसुखास्
Lemma: श्रोत्र
POS: n
श्रोत्रसुखास्
Lemma: सुख
POS: adj
त्रिनेत्रः
Lemma: त्रिनेत्र
POS: m
केयूरचूर्णीकृतलाजमुष्टिं
Lemma: केयूर
POS: m
केयूरचूर्णीकृतलाजमुष्टिं
Lemma: चूर्णीकृ
POS: 8. P.
केयूरचूर्णीकृतलाजमुष्टिं
Lemma: लाज
POS: mf
केयूरचूर्णीकृतलाजमुष्टिं
Lemma: मुष्टि
POS: mf
हिमालयस्यालयम्
Lemma: हिमालय
POS: m
हिमालयस्यालयम्
Lemma: आलय
POS: mn
आससाद
Lemma: आसद्
POS: 2. P. • Verb: आससाद
Canonical CTS URN Reference
Kumārasambhavam, KS 7.69. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.68) All Verses in Chapter 7 Next Verse (KS 7.70) →