Skip to main content
Search
Ch. 7 KS 7.70
Full Chapter
KS • Chapter 7: Canto 7

KS 7.70

Canonical Ref: KS 7.70
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद्दीधितिमानिवोक्ष्णः । क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्यद्रिपतेर्विवेश ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति । तत्र हिमवदालयेऽच्युतेन विष्णुना दत्तहस्तः विस्तीर्णहस्तावलम्बः सन् । शरद्धनाच्छरन्मेधात् । शरद्विशेषणान्मेघस्य शुभ्रत्वं गम्यते । दीधितिमान्सूर्य इवोक्ष्णो वृषादवतीर्य कमलासनेन पूर्वमग्रे क्रान्तानि प्रविष्टान्यद्रिपतेः कक्ष्यान्तराणि गेहप्रकोष्ठान्तराणि विवेश । `कक्ष्या कच्छे वरत्रायां काञ्च्यां गेहे प्रकोष्ठके` । इति यादवः अन्वयः: तत्र अच्युतदत्तहस्तः शरद्धनात् दीधितिमान् इव उक्ष्णः अवतीर्य कमलासनेन पूर्वं क्रान्तानि अद्रिपतेः कक्ष्यान्तराणि विवेश ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तत्रावतीर्याच्युतदत्तहस्तः
Lemma: तत्र
POS: ind
तत्रावतीर्याच्युतदत्तहस्तः
Lemma: अवतृ
POS: 6. P.
तत्रावतीर्याच्युतदत्तहस्तः
Lemma: अच्युत
POS: m
तत्रावतीर्याच्युतदत्तहस्तः
Lemma: दा
POS: 1. Ā.
तत्रावतीर्याच्युतदत्तहस्तः
Lemma: हस्त
POS: mn
शरद्घनाद्
Lemma: शरद्
POS: f
शरद्घनाद्
Lemma: घन
POS: mn
दीधितिमान्
Lemma: दीधितिमन्त्
POS: m
इवोक्ष्णः
Lemma: इव
POS: ind
इवोक्ष्णः
Lemma: उक्षन्
POS: m
क्रान्तानि
Lemma: क्रम्
POS: 4. P.
पूर्वं
Lemma: पूर्वम्
POS: ind
कमलासनेन
Lemma: कमलासन
POS: m
कक्ष्यान्तराण्य्
Lemma: कक्ष्या
POS: f
कक्ष्यान्तराण्य्
Lemma: अन्तर
POS: n
अद्रिपतेर्
Lemma: अद्रिपति
POS: m
विवेश
Lemma: विश्
POS: 4. P. • Verb: विवेश
Canonical CTS URN Reference
Kumārasambhavam, KS 7.70. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.69) All Verses in Chapter 7 Next Verse (KS 7.71) →