Skip to main content
Search
Ch. 7 KS 7.71
Full Chapter
KS • Chapter 7: Canto 7

KS 7.71

Canonical Ref: KS 7.71
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च । गणाश्च गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तमिति । तमीश्वरमन्वगनुपदम् । अव्ययमेतत् । `अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्` इत्यमरः (अ.को.3|1|77) । इन्द्रप्रमुखा देवाश्च सप्तर्षयः पूर्वे येषां ते सप्तर्षिपूर्वाः । `न बहुव्रीहो` इति सर्वनामसंज्ञाप्रतिषेधः । परमर्षयः सनकादिमहर्षयश्च । `सन्महत्परमेत्तमोत्कृष्टाः पूज्यमानैः` इति तत्पुरुषः । गणाः प्रमथाश्चोत्तमार्था महाप्रयोजनाः आचाराः प्रशस्तं प्रकृष्टम् । अमोधमित्यर्थः । आरभ्यत इत्यारम्भ उपायस्तमिव गिर्यालयं हिमवन्मन्दिरमभ्यगच्छन् । प्राविशन्नित्यर्थः अन्वयः: तम् अन्वक् इन्द्रप्रमुखा देवाः, सप्तर्षिपूर्वाः परमर्षयो गणाश्च उत्तमाऽर्थाः प्रशस्तम् आरम्भम् इव गिर्यांलयम् अभ्यगच्छन् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तम्
Lemma: तद्
POS: pron
इन्द्रप्रमुखाश्
Lemma: इन्द्र
POS: m
इन्द्रप्रमुखाश्
Lemma: प्रमुख
POS: adj
च
Lemma: च
POS: ind
देवाः
Lemma: देव
POS: m
सप्तर्षिपूर्वाः
Lemma: सप्तर्षि
POS: m
सप्तर्षिपूर्वाः
Lemma: पूर्व
POS: pron
परमर्षयश्
Lemma: परम
POS: adj
परमर्षयश्
Lemma: ऋषि
POS: m
च
Lemma: च
POS: ind
गणाश्
Lemma: गण
POS: m
च
Lemma: च
POS: ind
गिर्यालयम्
Lemma: गिरि
POS: m
गिर्यालयम्
Lemma: आलय
POS: mn
अभ्यगच्छन्
Lemma: अभिगम्
POS: 1. Ā. • Verb: अभ्यगच्छन्
प्रशस्तम्
Lemma: प्रशंस्
POS: 1. Ā.
आरम्भम्
Lemma: आरम्भ
POS: m
इवोत्तमार्थाः
Lemma: इव
POS: ind
इवोत्तमार्थाः
Lemma: उत्तम
POS: adj
इवोत्तमार्थाः
Lemma: अर्थ
POS: mn
Canonical CTS URN Reference
Kumārasambhavam, KS 7.71. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.70) All Verses in Chapter 7 Next Verse (KS 7.72) →