Skip to main content
Search
Ch. 7 KS 7.72
Full Chapter
KS • Chapter 7: Canto 7

KS 7.72

Canonical Ref: KS 7.72
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमर्घ्यं मधुमच्च गव्यम् । नवे दुकूले च नगोपनीतं प्रत्यग्रहीत्सर्वममन्त्रवर्जम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति । तत्र हिमवदालय ईश्वरो विष्टरभागासनगतः । उपविष्ट इत्यर्थः । यथावद्यथार्हम् । विधिवदित्यर्थः । सरत्नंरत्नसहितमर्ध्यमर्घार्यं जलम् । मधु क्षौद्रमस्मिन्नस्तीति मधुमत् । गवि भवं गव्यं दधि च । मधुपर्कमित्यर्थः । `दधिमधुनी सर्पिर्वा मध्वलाभे` इत्याश्वलायनगृह्यसूत्रात् नवे दुकूले चेति सर्वं नगोपनीतं हिमवदानीतमर्घ्यादिकं मन्त्रान्वर्जयित्वा मन्त्रवर्जम् । ततो नञ्समासः । अमन्त्रवर्जम् । मन्त्रान्न वर्जयित्वेत्यर्थः । `द्वितीयायां च` (पा.3|4|53) इति णमुल्प्रत्यय इत्याह न्यासकारः `अनुदात्तं पदमेकवर्जम्` (पा.6|1|158) इत्यत्र । प्रत्यग्रहीत्स्वीकृतवान् अन्वयः: तत्र ईश्वरः विष्टरभाक् यथावत् सरत्नम् अर्ध्यं, मधुमत् गव्यं, नवे दुकूले च इति सर्वं नगोपनीतम् अमन्त्रवर्जं प्रत्यग्रहीत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तत्रेश्वरो
Lemma: तत्र
POS: ind
तत्रेश्वरो
Lemma: ईश्वर
POS: m
विष्टरभाग्
Lemma: विष्टर
POS: m
विष्टरभाग्
Lemma: भाज्
POS: adj
यथावत्
Lemma: यथावत्
POS: ind
सरत्नम्
Lemma: स
POS: ind
सरत्नम्
Lemma: रत्न
POS: mn
अर्घ्यं
Lemma: अर्घ्य
POS: n
मधुमच्
Lemma: मधुमत्
POS: adj
च
Lemma: च
POS: ind
गव्यम्
Lemma: गव्य
POS: adj
नवे
Lemma: नव
POS: adj
दुकूले
Lemma: दुकूल
POS: n
च
Lemma: च
POS: ind
नगोपनीतं
Lemma: नग
POS: m
नगोपनीतं
Lemma: उपनी
POS: 1. Ā.
प्रत्यग्रहीत्
Lemma: प्रतिग्रह्
POS: 9. Ā. • Verb: प्रत्यग्रहीत्
सर्वम्
Lemma: सर्व
POS: pron
अमन्त्रवर्जम्
Lemma: अमन्त्र
POS: adj
अमन्त्रवर्जम्
Lemma: वर्ज
POS: adj
Canonical CTS URN Reference
Kumārasambhavam, KS 7.72. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.71) All Verses in Chapter 7 Next Verse (KS 7.73) →