Skip to main content
Search
Ch. 7 KS 7.75
Full Chapter
KS • Chapter 7: Canto 7

KS 7.75

Canonical Ref: KS 7.75
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहृतानि । ह्रीयन्त्रणां तत्क्षणमन्वभूवन्नन्योन्यलोलानि विलोचनानि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तयोरिति । तयोर्वधूवरयोः समापत्तिषु यदृच्छया संगतिषु कातराणि चकितानि । `अधीरे कातरः` इत्यमरः (अ.को.3|1|26) । द्रष्टुमसमर्थांनीति भावः । किंचिदीषद् व्यवस्थापितानि स्थिरीकृतानि पश्चात्संहृतानि निवर्तितानि चेति व्यवस्थापितसंहृतानि । `पूर्वकाले-` त्यादिना तत्पुरुषः । अन्योन्यस्मिंल्लोलानि सतृष्णानि । `लोलश्चलसतृष्णयोः` इत्यमरः (अ.को.3|1|26) । विलोचनानि दृष्टयस्तत्क्षणं तस्मिन्क्षणे ह्रीयन्त्रणां ह्रिया निमित्तेन संकोचमन्वभूवन् अन्वयः: तयोः समापत्तिषुः कातराणि किञ्चिद् व्यवस्थापितसंहृतानि अन्योन्यलोलानि विलोचनानि तत्क्षणं ह्रीयन्त्रणाम् अन्वभूवन् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तयोः
Lemma: तद्
POS: pron
समापत्तिषु
Lemma: समापत्ति
POS: f
कातराणि
Lemma: कातर
POS: adj
किंचिद्व्यवस्थापितसंहृतानि
Lemma: कश्चित्
POS: pron
किंचिद्व्यवस्थापितसंहृतानि
Lemma: व्यवस्थापय्
POS: 10. P.
किंचिद्व्यवस्थापितसंहृतानि
Lemma: संहृ
POS: 1. Ā.
ह्रीयन्त्रणां
Lemma: ह्री
POS: f
ह्रीयन्त्रणां
Lemma: यन्त्रण
POS: fn
तत्क्षणम्
Lemma: तद्
POS: pron
तत्क्षणम्
Lemma: क्षण
POS: m
अन्वभूवन्न्
Lemma: अनुभू
POS: 1. Ā. • Verb: अन्वभूवन्
अन्योन्यलोलानि
Lemma: अन्योन्य
POS: adj
अन्योन्यलोलानि
Lemma: लोल
POS: adj
विलोचनानि
Lemma: विलोचन
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 7.75. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.74) All Verses in Chapter 7 Next Verse (KS 7.76) →