Skip to main content
Search
Ch. 7 KS 7.76
Full Chapter
KS • Chapter 7: Canto 7

KS 7.76

Canonical Ref: KS 7.76
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्त्तिः । उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वमिव प्ररोहम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति । अष्टमूर्तिः शिवः । तस्मादीश्वराच्छङ्कत इति तच्छङ्किनः । तद्भीतस्येत्यर्थः । अतएवोमातनावुमाशरीरे गूढतनोर्गुप्तशरीरस्य स्मरस्य पूर्व प्ररोहमिव प्रथमाङ्कुरमिव स्थितं शैलगुरूपनीतं शैलगुरुणा हिमवतोपनीतं प्रापितम् । अथवा शैलगुरुणा हिमवत्पुरोधसोपनीतं ताम्राङ्गुलिं रक्ताङ्गुलिं तस्याः पार्वत्याः करं जग्राह अन्वयः: अष्टमूर्तिः तच्छङ्किनः उमातनौ गूढतनोः स्मरस्य पूर्वं प्ररोहम् इव (स्थितम्) शैलगुरुपनीतं ताम्राऽङ्गुलिं तस्याः करं जग्राह ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तस्याः
Lemma: तद्
POS: pron
करं
Lemma: कर
POS: m
शैलगुरूपनीतं
Lemma: शैलगुरु
POS: m
शैलगुरूपनीतं
Lemma: उपनी
POS: 1. Ā.
जग्राह
Lemma: ग्रह्
POS: 6. Ā. • Verb: जग्राह
ताम्राङ्गुलिम्
Lemma: ताम्र
POS: adj
ताम्राङ्गुलिम्
Lemma: अङ्गुलि
POS: mf
अष्टमूर्तिः
Lemma: अष्टमूर्ति
POS: m
उमातनौ
Lemma: उमा
POS: f
उमातनौ
Lemma: तनु
POS: f
गूढतनोः
Lemma: गुह्
POS: 6. P.
गूढतनोः
Lemma: तनु
POS: f
स्मरस्य
Lemma: स्मर
POS: m
तच्छङ्किनः
Lemma: तद्
POS: pron
तच्छङ्किनः
Lemma: शङ्किन्
POS: adj
पूर्वम्
Lemma: पूर्वम्
POS: ind
इव
Lemma: इव
POS: ind
प्ररोहम्
Lemma: प्ररोह
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 7.76. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.75) All Verses in Chapter 7 Next Verse (KS 7.77) →