Skip to main content
Search
Ch. 7 KS 7.77
Full Chapter
KS • Chapter 7: Canto 7

KS 7.77

Canonical Ref: KS 7.77
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत् । वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): रोमोद्गम इति । उमाया रोमोद्गमो रोमाञ्चः प्रादुरभूत् । पुमान्गौः पुंगवो वृषभः । `गोरतद्धितलुकि` (पा.5|4|92) इति टच् । स केतुश्चिह्नं यस्य स पुंगवकेतुः शिवः स्विन्नाङ्गुलिरासीत् । अत्रोत्प्रेक्षते-पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा । तयोर्वधूवरयोर्मनोभवस्य वृत्तिरवस्थितिः समं विभक्तेव । समीकृतेवेत्यर्थः । प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणिसंस्पर्शकृतत्वमुत्प्रेक्षते । ननु कन्या तु प्रथमसंगमे स्विन्नकरचरणा भवति पुमांस्तु रोमाञ्चितो भवतीति बात्स्यायनेन विपरीतमुक्तमिति चेन्नैष दोषः । एभिरनयोर्भावं परीक्षेतेति वाक्यशेष एभिरिति बहुवचनेन स्वेदरोमाञ्चग्रहणस्य सकलसात्त्विकोपलक्षणत्वावगमेनानियमावधारणात् । अतएव रघुवंशेऽन्यथाभिधानात्स्वोक्तिविरोध इत्यपास्तम् । तदेतद्रघुवंशसंजीविन्यां (७/२२) सुव्यक्तमवोचम् । सात्त्विकास्तु `स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः ।` इति अन्वयः: उमाया रोमोद्गमः प्रादुरभूत् । पुङ्गवकेतुः स्विन्नाऽङ्गुलि आसीत् । पाणिसमागमेन तयोः मनोभवस्य वृत्तिः समं विभक्ता इव अभूत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
रोमोद्गमः
Lemma: रोमन्
POS: n
रोमोद्गमः
Lemma: उद्गम
POS: m
प्रादुरभूद्
Lemma: प्रादुर्भू
POS: 1. P. • Verb: प्रादुरभूत्
उमायाः
Lemma: उमा
POS: f
स्विन्नाङ्गुलिः
Lemma: स्विद्
POS: 4. P.
स्विन्नाङ्गुलिः
Lemma: अङ्गुलि
POS: mf
पुङ्गवकेतुर्
Lemma: पुंगव
POS: m
पुङ्गवकेतुर्
Lemma: केतु
POS: m
आसीत्
Lemma: अस्
POS: 2. P. • Verb: आसीत्
वृत्तिस्
Lemma: वृत्ति
POS: f
तयोः
Lemma: तद्
POS: pron
पाणिसमागमेन
Lemma: पाणि
POS: m
पाणिसमागमेन
Lemma: समागम
POS: m
समं
Lemma: समम्
POS: ind
विभक्तेव
Lemma: विभज्
POS: 1. Ā.
विभक्तेव
Lemma: इव
POS: ind
मनोभवस्य
Lemma: मनोभव
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 7.77. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.76) All Verses in Chapter 7 Next Verse (KS 7.78) →