Skip to main content
Search
Ch. 7 KS 7.78
Full Chapter
KS • Chapter 7: Canto 7

KS 7.78

Canonical Ref: KS 7.78
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
प्रयुक्तपाणिग्रहणं यदन्यद्वधूवरं पुष्यति कान्तिमग्र्याम् । सान्निध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): प्रयुक्तेति । यद्यस्मात्कारणात्प्रयुक्तं पाणिग्रहणं यस्य तत्तथोक्तमन्यल्लौकिकम् । वधूश्च वरश्च वधूवरम् । समाहारे द्वन्द्वैकवद्भावः । तदानीं पाणिग्रहणकालेऽनयोरुमाशिवयोः सांनिध्ययोगात्संनिधिभावादग्र्यामुत्तमां कान्तिं शोभां पुष्यति पुष्णाति तस्योभयस्योमामहेश्वररूपस्य मिथुनस्य श्रीः किं कथ्यते । यत्प्रसादादन्यस्य शोभालाभस्तस्य किमु वक्तव्येत्यर्थः । `विवाहसमये गौरीशिवौ वधूवरावनुप्रविशेताम्` इत्यागमः अन्वयः: यत् प्रयुक्तपणिग्रहणम् अन्यत् वधूवरम् अनयोः सान्निध्ययोगात् अग्र्यां कान्तिं पुष्यति. तदानीं तस्य उभयस्य श्रीः किं कथ्यते ?

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
प्रयुक्तपाणिग्रहणं
Lemma: प्रयुज्
POS: 7. Ā.
प्रयुक्तपाणिग्रहणं
Lemma: पाणिग्रहण
POS: n
यद्
Lemma: यद्
POS: pron
अन्यद्
Lemma: अन्य
POS: pron
वधूवरं
Lemma: वधू
POS: f
वधूवरं
Lemma: वर
POS: m
पुष्यति
Lemma: पुष्
POS: 2. P. • Verb: पुष्यति
कान्तिम्
Lemma: कान्ति
POS: f
अग्र्याम्
Lemma: अग्र्य
POS: adj
सान्निध्ययोगाद्
Lemma: सांनिध्य
POS: n
सान्निध्ययोगाद्
Lemma: योग
POS: m
अनयोस्
Lemma: इदम्
POS: pron
तदानीं
Lemma: तदानीम्
POS: ind
किं
Lemma: क
POS: pron
कथ्यते
Lemma: कथय्
POS: 10. Ā. • Verb: कथ्यते
श्रीर्
Lemma: श्री
POS: f
उभयस्य
Lemma: उभय
POS: adj
तस्य
Lemma: तद्
POS: pron
Canonical CTS URN Reference
Kumārasambhavam, KS 7.78. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.77) All Verses in Chapter 7 Next Verse (KS 7.79) →