Skip to main content
Search
Ch. 7 KS 7.90
Full Chapter
KS • Chapter 7: Canto 7

KS 7.90

Canonical Ref: KS 7.90
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव । संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): द्विधेति । अथ सरस्वती वाग्देनी द्विधा संस्कृतप्राकृतरुपेण द्वैविध्येन प्रयुक्तेनोच्चारितेन वाङ्मयेन शब्दजालेन तन्मिथुनं नुनाव तुष्टाव । `णु स्तुतौ` इति धातोर्लिट् । केन कमित्याह-संस्कारेति । संस्कारेण शास्त्रव्युत्पत्त्या पूतेन प्रकृतिप्रत्ययविभागशुद्धेन । संस्कृतेनेत्यर्थः । वरेण्यं वरणीयम् । श्लाध्यमित्यर्थः । वृणोतेरौणादिक एण्यप्रत्ययः । वरं वोढारं शिवम् । सुखेन ग्राह्यं सुबोधं निबन्धनं रचना यस्य तेन वाङ्मयेन प्राकृतभाषयेत्यर्थः । वधूं नुनावेत्यनेन संम्बन्धः अन्वयः: सरस्वती द्विधा प्रयुक्तेन वाङ्मयेन तत् मिथुनं नुनाव संस्कारपूतेन वरेण्यं वरं, सुखग्राह्यनिबन्धनेन वधूं नुनाव ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
द्विधा
Lemma: द्विधा
POS: ind
प्रयुक्तेन
Lemma: प्रयुज्
POS: 7. Ā.
च
Lemma: च
POS: ind
वाङ्मयेन
Lemma: वाच्
POS: f
वाङ्मयेन
Lemma: मय
POS: adj
सरस्वती
Lemma: सरस्वती
POS: f
तन्
Lemma: तद्
POS: pron
मिथुनं
Lemma: मिथुन
POS: mn
संस्कारपूतेन
Lemma: संस्कार
POS: m
संस्कारपूतेन
Lemma: पू
POS: 1. P.
वरं
Lemma: वर
POS: mn
वरेण्यं
Lemma: वरेण्य
POS: adj
वधूं
Lemma: वधू
POS: f
सुखग्राह्यनिबन्धनेन
Lemma: सुख
POS: n
सुखग्राह्यनिबन्धनेन
Lemma: ग्रह्
POS: 6. Ā.
सुखग्राह्यनिबन्धनेन
Lemma: निबन्धन
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 7.90. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.89) All Verses in Chapter 7 Next Verse (KS 7.91) →