Skip to main content
Search
Ch. 7 KS 7.61
Full Chapter
KS • Chapter 7: Canto 7

KS 7.61

Canonical Ref: KS 7.61
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अर्धाचितेति । सत्वरं सवेगमुत्थितायाः कस्याश्चिदर्धाचिता मणिभिर्गुम्फितार्धाचिता दुर्निमिते संभ्रमाद्दुःखेन निक्षिप्ते । `डुमिञ्प्रक्षेपणे` इति धातोः कर्मणि क्तः । पदे पदे प्रतिपदम् । वीप्सायां द्विर्भावः । गलन्ती गलद्रत्ना सती रशना मेखला तदानीं तस्मिन्नवसरेऽङ्गुष्ठमूलऽर्पितं लगितं सूत्रमेव शेषो यस्याः सासीत् अन्वयः: सत्वरम् उत्थितायाः कस्याश्चित् अर्धाचिता रशना दुर्निमिते पदे पदे गलन्ती सती तदानीम् अङ्गुष्ठमूलाऽर्पितसूत्रशेषा आसीत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अर्धाचिता
Lemma: अर्ध
POS: adj
अर्धाचिता
Lemma: आचि
POS: 5. Ā.
सत्वरम्
Lemma: स
POS: ind
सत्वरम्
Lemma: त्वरा
POS: f
उत्थितायाः
Lemma: उत्था
POS: 1. Ā.
पदे
Lemma: पद
POS: mn
पदे
Lemma: पद
POS: mn
दुर्निमिते
Lemma: दुर्निमित
POS: adj
गलन्ती
Lemma: गल्
POS: 1. P.
कस्याश्चिद्
Lemma: कश्चित्
POS: pron
आसीद्
Lemma: अस्
POS: 2. P. • Verb: आसीत्
रशना
Lemma: रशना
POS: f
तदानीम्
Lemma: तदानीम्
POS: ind
अङ्गुष्ठमूलार्पितसूत्रशेषा
Lemma: अङ्गुष्ठ
POS: m
अङ्गुष्ठमूलार्पितसूत्रशेषा
Lemma: मूल
POS: mn
अङ्गुष्ठमूलार्पितसूत्रशेषा
Lemma: अर्पय्
POS: 10. Ā.
अङ्गुष्ठमूलार्पितसूत्रशेषा
Lemma: सूत्र
POS: n
अङ्गुष्ठमूलार्पितसूत्रशेषा
Lemma: शेष
POS: mn
Canonical CTS URN Reference
Kumārasambhavam, KS 7.61. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.60) All Verses in Chapter 7 Next Verse (KS 7.62) →