Skip to main content
Search
KS
Kumārasambhavam • Chapter 06

Canto 6

षष्ठः सर्गः

Canto 6 of Kumārasambhavam.

Total: 95 Verses • Citations: KS 6.1–95 • 1 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
KS 6.1 अनुष्टुप्
अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् । दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ देवदेवानुग्रहानन्तरं गौरी पार्वती विश्वमात्मा स्वरुपं यस्येति । विश्वस्यात्मेति वा । विश्वात्मने शिवाय मिथो रहसि । `मिथोऽन्योऽन्थं रहस्यपि` इत्यमरः । सखीं संदिदेशातिससर्ज । क्रियामात्रयोगेऽपि संप्रदानत्वाच्चतुर्थीं । किमिति । भूभृतां नाथो हिमवान्मे मम दाता सन् । प्रमाणीक्रियतामिति । दातृत्वेन प्रमाणीक्रियतामित्यर्थः । प्रार्थनायां लोट् । पित्रा दीयमानायाः परिग्रहो मम महाननुग्रह इति भावः अन्वयः: अथ गौरी विश्वात्मने `भूभृतां नाथः मे दाता प्रमाणीक्रियताम्` इति मिथः सखीं सन्दिदेश ।
KS 6.2 अनुष्टुप्
तया व्याहृतसंदेशा सा बभौ निभृता प्रिये । चूतयष्टिरिवाभ्याष्ये मधौ परभृतामुखी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तयेति । तया सख्या । सखीमुखेनेत्यर्थः । व्याहृतसंदेशोक्तवाचिका प्रिये हरविषये निभृता निश्चला । परमासक्तेत्यर्थः । सा गौरी । मधौ वसन्ते निभृता स्थिरया परभृतया कोकिलयोन्मुखी मुखरा परभृतोन्मुखी । मुखशब्देनाभिभाषणव्यापारो लक्ष्यते । तथा च परभृतामुखेन व्याहरन्तीत्यर्थः । परभृतेति क्रियाशब्दविवक्षायाम् `जातेरस्त्री-` ति ङीप्प्रत्ययो नभवति । तयेत्युपमेयस्य व्यस्तत्वादुपमानवाचिपरभृताशब्दस्य समासः सेढव्यः । अथवा भृद्भरणम् । संपदादित्वात्क्विप् । परैर्भृद्यस्यास्तया परभृतेति व्यासेन व्याख्येयम् । पदमञ्जरीकारस्तु परैर्भ्रियत इति कर्मणि क्विपमाह । चूतयष्टिश्चूतशाखेवाभ्याशेऽन्तिके बभौ । `सदेशाभ्याशसविधसमर्यादसवेशवत् । उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥` इत्यमरः अन्वयः: तया व्याहृतसन्देशा प्रिये निभृता सा मधौ निभृता परभृतोन्मुखी चूतयष्टिः इव अभ्याशे बभौ ।
KS 6.3 अनुष्टुप्
स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीञ्ज्योतिर्मयान्सप्त सस्मार स्मरशासनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति । स प्रकृतः । शास्तीति शासनः बहुलग्रहणात्कर्तरि ल्युट्` स्मरस्य शासन ईश्वरस्तथेति प्रतिज्ञाय । तथा करिष्यामीत्युक्त्वेत्यर्थः । उमां कथमपि कृच्छ्रेण विसृज्य । तत्र गाढानुरागत्वादिति भावः । ज्योतिर्मयांस्तेजोरूपान्सप्तर्षीनङ्गिरसःप्रभृतीन्सस्मार स्मृतवान् अन्वयः: स स्मरशासनः `तथा` इति प्रतिज्ञाय उमां कथमपि विसृज्य ज्योतिर्मयान् सप्त ऋषीन सस्मार ।
KS 6.4 अनुष्टुप्
ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः । सारुन्धतीकाः सपदि प्रादुरासन्पुरः प्रभोः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त इति । ते तप एव धनं येषां ते तपोधनाः सप्तर्षयः प्रभामण्डलैस्तेजःपुञ्जैर्व्योमाकाशं द्योतयन्तः प्रकाशयन्तः । अरुन्धत्या सह वर्तन्त इति सारुन्धतीकाः सन्तः । `नद्युतश्च` इति कप् । सपदि प्रभौरीश्वरस्य पुरः पुरोभागे प्रादुरासन्प्रत्यक्षा बभूवुः अन्वयः: ते तपोधनाः प्रभामण्डलैः व्योम द्योतयन्तः साऽरुन्धतीकः सन्तः सपदि प्रभोः पुरः प्रादुरासन् ।
KS 6.5 अनुष्टुप्
आप्लुतास्तीरमन्दारकुसुमोत्किरवीचिषु । आकाशगङ्गास्रोतस्सु दिङ्नागमदगन्धिषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आप्लुता इति । उत्किरन्ति विक्षिपन्तीत्युत्किराः । `इगुपधे-` त्यादिना कप्रत्ययः । तीरे ये मन्दाराः कल्पवृक्षास्तेषां कुसुमानामुत्किरा वीचयस्तरङ्गा येषां तेषु दिङ्नागानां दिग्गजानां मदगन्धो येष्विति तथोक्तेषु व्योमगङ्गाप्रवाहेष्वाकाशगङ्गास्रोतःस्वाप्लुताः स्नाताः । अन्वयः: तीरमन्दारकुसुमोत्किरवीचिषु दिङ्नागमदगन्धिषु व्योमगङ्गाप्रवाहेषु आप्लुताः (ते प्रादुरासन्) ।
KS 6.6 अनुष्टुप्
मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः । रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मुक्तेति । मुक्तानां मौक्तिकानां यज्ञोपवीतानि मुक्तामयानीत्यर्थः । बिभ्रतो दधानाः । हेमगयानि वल्कलानि येषां ते हैमवल्कलाः । रत्नमयान्यक्षसूत्राणि येषां ते रत्नाक्षसूत्राः । प्रव्रज्यां प्रव्रजनम् । `व्रजयजोर्भावे क्यप् । आश्रिताः कल्पवृक्षा इव स्थिताः । अत्र चतुर्थाश्रमवाचिना प्रव्रज्याशब्देन वानरप्रस्थाश्रमो लक्ष्यते । `जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः` (६.३४) । इति सपत्नीकत्वाभिधानात् सुतविन्यस्तपत्नीकस्तया वानुगतोऽपि सन्` । इति वानप्रस्थस्योभयथा स्मरणात् अन्वयः: मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कला रत्नाऽक्षसूत्राः प्रव्रज्याम् आश्रिताः कल्पवृक्षा इव (ते प्रादुरासन्) ।
KS 6.7 अनुष्टुप्
अधःप्रवर्त्तिताश्वेन समावर्जितकेतुना । सहस्ररश्मिना शश्वत्सप्रमाणमुदीक्षिताः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अध इति । अधः प्रस्थापिताश्वेन । सूर्यमण्डलोपरिवर्तित्वात्सप्तर्षिमण्डलस्येति भावः । समावर्जितकेतुना तन्मण्डलाघातशङ्कया नमितध्वजेन सहस्त्ररश्मिना सूर्येण साक्षात्स्वयमेव सप्रणाममुदीक्षिताः । गमनाभ्यनुज्ञादानपर्यन्तमित्यर्थः । भगवतः सूर्यस्याप्युपास्या इति भावः अन्वयः: अधःप्रस्थापिताऽश्वेन समावर्जितकेतुना सहस्त्ररश्मिना साक्षात् सप्रणामम् उदीक्षिताः (ते प्रादुरासन्) ।
KS 6.8 अनुष्टुप्
आसक्तबाहुलतया सार्धमुद्धृतया भुवा । महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आसक्तेति । पुनः किंविधाः । प्रलयापदि कल्पान्तसंकट आसक्तबाहुलतया । दंष्ट्रायामिति शेषः । उद्धृतया । दंष्ट्रयेति शेषः । भुवा सार्धं धरण्या सह महावराहदंष्ट्रायां विश्रान्ताः । महाप्रलयेऽप्यविनाशिन इत्यर्थः अन्वयः: प्रलयापदि आसक्तबाहुलतया उद्धृतया भुवा सार्धं महावराहदंष्ट्रायां विश्रान्ताः (ते प्रादुरासन्) ।
KS 6.9 अनुष्टुप्
सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् । पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सर्गेति । विश्वयोनेर्ब्रह्मणोऽनन्तरं सर्गशेषस्य प्रणयनात् । ब्रह्मसृष्ठावशिष्टसृष्टेः करणाद्धेतोरित्यर्थः । पुराविद्भिः पुराणवेदिभिर्व्यासादिभिः पुरातना धातार इति कीर्तिताः । विश्वयोनेरिति सम्बन्धमात्रे षष्ठी । तस्यानन्तरमिति भाष्ये दर्शनात् । अपादानत्वविवक्षायां तु पञ्चमी । अयमदः शब्दो यथाशब्दावृत्तादनन्तरस्येति शाबरभाष्ये दर्शनात् । तथा `अथातो धर्मजिज्ञासा वेदाध्यायादनन्तरम्` इत्याचार्याः । कविश्च `पुराणपत्त्रापगमादनन्तरम्` इति । एवमन्यत्रापि द्रष्टव्यम् अन्वयः: विश्वयोनेः अनन्तरं सर्गशेषप्रणयनात् पुराविद्भिः `पुरातना धातार` इति कीर्तिताः । (ते प्रादुरासन्) ।
KS 6.10 अनुष्टुप्
प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् । तपसामुपभुञ्जानाः फलान्यपि तपस्विनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्राक्तनानामिति । प्राक्तनानां जन्मान्तरभवानां विशुद्धानां निर्मलानां परिपाकं फलदानोन्मुखत्वमुपेयुषां गतानां तपसां फलान्युपभुञ्जाना अपि तपस्विनस्तपोनिष्ठाः । प्रारब्धभोगिनो निःस्पृहाश्चेति भावः । कुलकम् अन्वयः: प्राक्तनानां विशुद्धानां परिपाकम् उपेयुषां तपसां फलानि उपभुञ्जाना अपि तपस्विनः (ते प्रादुरासन्) ।
KS 6.11 अनुष्टुप्
तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा । साक्षादिव तपःसिद्धिर्बभासे बह्वरुन्धती ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तेषामिति । तेषामृषीणां मध्यगता साध्वी पतिव्रता । अत एव पत्युर्वसिष्ठस्य पादयोरर्पितेक्षणा निविष्टदृष्टिररुन्धती साक्षात्प्रत्यक्षा तपःसिद्धिरिव तेषामेवति शेषः । तेषां मध्यगतेति लिङ्गवचनादिसाम्यादियमुपमा । बहु भूयिष्ठं बभासे भाति स्म अन्वयः: तेषां मध्यगता साध्वी पत्युः पादाऽर्पितेक्षणा अरुन्धती साक्षात् तपःसिद्धिः इव बहु बभासे ।
KS 6.12 अनुष्टुप्
तामगौरवभेदेन मुनींश्चापश्यदीश्वरः । स्त्री पुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तामिति । ईश्वरो भगवांस्तामरुन्धतीं मुनींश्चागौरवभेदेन समानप्रतिपत्त्यापश्यद्दृष्टवान् । न चायमविवेक इत्याह-हि यस्मात्स्त्री पुमांश्चेत्येषानास्था स्त्रीपुंसभेदो न विवक्षितः । किंतु सतां साधूनां वृत्तं चरित्रमेव महितं पूज्यम् । `गुणाः पुजास्थानं गुणिषु न च लिङ्गं न च वयः` इति भावः अन्वयः: ईश्वरः तां मुनींश्च अगौरवभेदेन अपश्यत् । हि स्त्री पुमान् इति एषा अनास्था, (किन्तु) सतां वृत्तं महितम् ।
KS 6.13 अनुष्टुप्
तद्दर्शनादभूच्छम्भोर्भूयान्दारार्थमादरः । क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलसाधनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति । तद्दर्शनादरुन्धतीदर्शनाच्छंभोर्दारार्यं परिग्रहार्थमादरो भूयान्बहुतरोऽभूत् । ननु दाराः कुत्रोपयुज्यन्त इत्यत्राह--धर्म्याणां धर्मादनपेतानाम् । `धर्मपथ्यर्थन्यायादनपेते` (पा.4|4|92) इति यत्प्रत्ययः । क्रियामाणानामिज्यादीनां सत्यः पतिव्रताः पत्न्यः सत्पत्न्यः । `पत्युर्नो यज्ञसंयोगे` (पा.4|1|33) इति ङीप् । नकारश्च । मूलकारणं खलु अन्वयः: तद्दर्शनात् शम्भोः दाराऽर्थमादरः भूयान् अभूत्, (यतः) धर्म्याणां क्रियाणां सत्पत्न्यो मूलकारणम् ।
KS 6.14 अनुष्टुप्
धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति । पूर्वापराधभीतस्य कामस्योच्छ्वासितं मनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): धर्मेणेति । धर्मेण दारसंजिवृक्षालक्षणेनापि कर्त्रा । शर्वे ईश्वरे पार्वतीं प्रति पदं कारिते सति । `हृक्रोरन्यतरस्याम्` (पा.1|4|53) इति शर्वस्याणिकर्तुः कर्मत्वम् । पूर्वापराधभीतस्य कामस्य मन उच्छ्वसितम् । पुनरुज्जीवनावकाशो भवतीति सप्रत्याशमभूदित्यर्थः अन्वयः: धर्मेण अपि शर्वे पार्वतीं प्रति पदं कारिते सति पूर्वाऽपराधभीतस्य कामस्य मनः उच्छ्वसितम् ।
KS 6.15 अनुष्टुप्
अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् । इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथानूचानाः । साङ्गवेदप्रवक्तारः । `अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः` इत्यमरः (अ.को.2|7|12) । `उपेयिवाननाश्वाननूचानश्च` (पा.3|2|109) इति निपातः । प्रीत्या कण्टकिताः पुलकितास्त्वचो येषां ते तथोक्ताः । ते सर्वे मुनयो जगद्गुरुं हरं मानयित्वा पूजयित्वेदं वक्ष्यमाणमूचुः अन्वयः: अथ अनूचानाः प्रीतिकण्टकितत्वचः ते सर्वे मुनयो जगद्गुरुं मानयित्वा इदम् ऊचुः ।
KS 6.16 अनुष्टुप्
यद्ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् । यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यदिति । ब्रह्म वेदः । `वेदस्तत्त्वं तपो ब्रह्म` इत्यमरः सम्यङ् नियमपूर्वकमाम्नातमधीतमिति यत् । अग्नौ विधिना हुतमिति यत् । तपश्चान्द्रायणादिकं तप्तमिति च यत्तस्याध्ययनेज्यातपोरूपस्य आश्रमत्रयसाध्यस्य कृत्स्नस्यापि कर्मण इत्यर्थः । समुदायाभिप्रायकमेकवचनमन्यथावृत्त्यान्वयप्रसङ्गात् । न च नपुंसकैकवद्भावोऽनपुंसकेनेति नियमात् । फलं कार्यमद्य नोऽस्माकं विपक्वम् । सुनिष्पन्नमित्यर्थः । कर्मणि क्तः `पचो वः` (पा.8|2|52) इति निष्ठातस्य वत्वम् अन्वयः: यद् ब्रह्म सम्यक् आम्नातं, यत् अग्नौ विधिना हुतं, यत् तपः तप्तं, तस्य फलम् अद्य नो विपक्वम् ।
KS 6.17 अनुष्टुप्
यदध्यक्षेण जगतां वयमारोपितास्त्वया । मनोरथस्याविषयं मनोविषयमात्मनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यदिति । यद्यस्मात्कारणाज्जगतामध्यक्षेणाधिपेन त्वया वयं मनोरथस्याभिलाषस्याविषयमगोचरमात्मनः स्वस्य मनोविषयं मनोदेशमारोपिताः प्रापिताः । तस्माद्विपक्वं फलमिति पूर्वेण संबन्धः । `सकलजगदन्वेष्टव्यस्य भगवतोऽपि वयमन्वेष्या भवाम; इति परमोत्कृष्टा वयमिति भावः अन्वयः: यत् जगताम् अध्यक्षेण त्वया वयं मनोरथस्य अविषयम् आत्मनो मनोविषयम् आरोपिताः ।
KS 6.18 अनुष्टुप्
यस्य चेतसि वर्तेथाः स तावत्कृतिनां वरः । किं पुनर्ब्रह्मयोनेर्यस्तव चेतसि वर्तते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यस्येति । यस्य जनस्य चेतसि वर्तेथाः, येन स्मर्यस इत्यर्थः । स तावत्स एव कृतिनां कृतकृत्यानां वरः श्रेष्ठः । ब्रह्मणो वेधसो वा योनेः कारणस्य । यद्वा वेदप्रमाणकस्य । तव चेतसि यो वर्तते । त्वया स्मर्यत इत्यर्थः । किं पुनः । स कृतिनां वर इति किमु वक्तव्यमित्यर्थः अन्वयः: (हे भगवन् !) यस्य चेतसि वर्तेथाः, स तावत् कृतिनां वरः । ब्रह्मयोनेः तव चेतसि यो वर्तते स कृतिनां वर इति किमु ?
KS 6.19 अनुष्टुप्
सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् । अद्य तूच्चैस्तरं तस्मात्स्मरणानुग्रहात्तव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सत्यमिति । अर्कात्सूर्याच्च सोमाच्चन्द्राच्च परमुच्चैः पदं स्थानमध्यास्महे तिष्ठामः । वयमिति शेषः । सत्यम् । `अधिशीङ्स्थासां कर्म` इति कर्मत्वम् । अद्य तु तव कर्तुः । स्मरणमेवानुग्रहः प्रसादस्तस्माद्धेतोः । ताभ्यामर्केन्दुभ्यामुच्चैस्तरमत्युच्चं पदम् । अध्यास्महे इति सम्बन्धः । उच्चैस्तरमिति द्रव्यप्रकर्षत्वान्नामुप्रत्ययः अन्वयः: (हे भगवन् !) अर्कात् सोमाच्च परं पदम् अध्यास्महे सत्यम् । अद्य तु तव स्मरणाऽनुग्रहात् ताभ्याम् उच्चैस्तरं पदम् अध्यास्महे ।
KS 6.20 अनुष्टुप्
त्वत्संभावितमात्मानं बहु मन्यामहे वयम् । प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त्वदिति । वयं त्वया सम्भावितं सत्कृतं त्वत्संभावितमात्मानमात्मस्वरुपं बह्वधिकं यथा तथा मन्यामहे । तथाहि । उत्तमादरः सत्पुरुषकर्तृकः सत्कारः स्वगुणेषु विषये प्रायेण भूम्ना प्रत्ययं विश्वासमाधत्ते जनयति । सर्वस्यापि महाजनपरिग्रह एव पूज्यताहेतुरित्यर्थः अन्वयः: (हे भगवन् !) वयं त्वत्संभावितम् आत्मानं बहु मन्यामहे । उत्तमादरः स्वगुणेषु स्वगुणेषु प्रायः प्रत्ययम् आधत्ते ।
KS 6.21 अनुष्टुप्
या नः प्रीतिर्विरूपाक्ष त्वदनुध्यानसंभवा । सा किमावेद्यते तुभ्यमन्तरात्मासि देहिनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): येति । हे विरूपाक्ष ! त्वदनुध्यानसम्भवा त्वत्कर्तृकस्मरणजन्या नोऽस्माकं या प्रीतिः सा प्रीतिस्तुभ्यं किमावेद्यते किमर्थ निबेद्यते । तथाहि । देहिनां प्राणिनामन्तरात्मान्तर्याम्यसि । सर्वसाक्षिणा त्वयास्मत्प्रीतिरनावेदितापि ज्ञायत एव यतस्ततो न बुद्धबोधनं सम्भवतीति भावः अन्वयः: हे विरूपाक्ष ! त्वदनुज्ञानसंभवा नः या प्रीतिः, सा तुभ्यं किम् आवेद्यते ? (यतः) देहिनाम् अन्तरात्मा असि ।
KS 6.22 अनुष्टुप्
साक्षाद्दृष्टोऽसि न पुनर्विद्मस्त्वां वयमञ्जसा । प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): साक्षादिति । हे देव ! साक्षात्प्रत्यक्षेण दृष्टोऽसि । अञ्जसा पुनस्तत्त्वतस्तु त्वां वयं न विद्मः । दृश्यमानस्य रूपस्यातात्विकत्वादिति भावः । अतः प्रसीदानुगृहाण । आत्मानं निजस्वरुपं कथय । न चाकथितं तत्सुबोधमित्याह-धियां बुद्धीनां पथि न वर्तसे, अतस्त्वयैव त्वद्रूपं कथनीयमीत्यर्थः अन्वयः: (हे भगवन् !) साक्षात् दृष्टः असि, अञ्जसा पुनः त्वां वयं न विद्मः, (अतः) प्रसीद, आत्मानं कथय । (यतः) धियां पथि न वर्तसे ।
KS 6.23 अनुष्टुप्
किं येन सृजसि व्यक्तमुत येन बिभर्षि तत् । अथ विश्वस्य संहर्ता भागः कतम एष ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): किमिति । हे देव ! एष दृश्यमानस्ते भागो मूर्तिः किम् । येन भागेन व्यक्तं प्रपञ्चं सृजसि सः । यत्तदोर्नित्यसंबन्धात्सर्वत्र तच्छब्दोऽध्याहार्यः । उत येन भागेन तद्व्यक्तं बिभर्षि पालयसि स वा । अथ यो भागस्तस्य विश्वस्य संहर्ता स वा । किमादयः संदेहे । कतमः । ब्रह्मविष्णुमहेश्वरेष्वयं कतमो भागस्तदुच्यतामित्यर्थः अन्वयः: (हे भगवन् !) एष ते भागः किम् ? येन व्यक्तं सृजसि सः । उत येन बिभर्षि सः । अथ यो विश्वस्य संहर्ता सः, कतमो ।
KS 6.24 अनुष्टुप्
अथवा सुमहत्येषा प्रार्थना देव तिष्ठतु । चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथवेति । अथवा हे देव ! सुमहती । गुह्यतमत्वादतिदुर्लभेत्यर्थः । एषा प्रार्थना निजरुपनिरुपणप्रार्थना, तिष्ठतु । किंतु चिन्तितेन चिन्तिता वोपस्थिताश्चिन्तितोपस्थितास्तान्नोऽस्मांस्तावच्छाध्याज्ञापय किं करवाम ? प्रार्थनायां लोट् । अलमप्रस्तुतेन, प्रस्तुते तावन्नियुङ्क्ष्वेत्यर्थः अन्वयः: अथवा हे देव ! सुमहती एषा प्रार्थना तिष्ठतु । चिन्तितोपस्थितान् नः तावत् शाधि । किं करवाम ?
KS 6.25 अनुष्टुप्
अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः । उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ परमेश्वरो मौलिगतस्येन्दोस्तन्वीमल्पाम् । कलामात्रत्वादिति भावः । प्रभां कान्तिं विशदैः शुभ्रैर्दशनांशुभिरुपचिन्वन्वर्धयन्प्रत्याह । प्रत्युवाचेत्यर्थः अन्वयः: अथ परमेश्वरो मौलिगतस्य इन्दोः तन्वीं प्रभां विशदैः दशानांऽशुभिः उपचिन्वन् प्रत्याह ।
KS 6.26 अनुष्टुप्
विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः । ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विदितमिति । हे मुनयः ! काश्चिदपि मे प्रवृत्तयो व्यापाराः स्वार्था न भवन्ति यथा तथा वो युष्माकं विदितम् । वाक्यार्थः कर्म । बुद्धर्थत्वाद्वर्तमाने क्तः, तद्योगात्षष्ठी । प्रवृत्तिपारार्थ्ये प्रमाणमाह-अष्टाभिर्मूर्तिभिरित्थंभूतं इमं प्रकारं परार्थप्रवृत्तिरुपं प्राप्तः । `भू प्राप्तो` इति धातोः कर्तरि क्तः । सूचितो ज्ञापितोऽस्मि । मत्स्वमूर्तिचेष्टया स्वपारार्थ्यमनुमेयमित्यर्थः । अन्वयः: (हे मुनयः !) काश्चित् मे प्रवृत्तयः स्वार्था न, वो विदितं । अष्टाभिः मूर्तिभिः इत्थंभूतः सूचितः अस्मि ।
KS 6.27 अनुष्टुप्
सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः । अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सोऽहमिति । स परार्थवृत्तिरहं तृष्णातुरैश्चातकैर्वृष्टिं विद्युत्वान्मेघ इवारिविप्रकृतैः शत्रुपीडितैर्देवैः प्रसूतिं पुत्रोत्पादनं प्रति याचितः । याचतेर्दुहादित्वादप्रधाने कर्मणि क्तः अन्वयः: सः अहं तृष्णाऽऽतुरैः चातकैः वृष्टिं विद्युत्वान् इव, अरिविप्रकृतैः देवैः प्रसूतिं प्रति याचितः ।
KS 6.28 अनुष्टुप्
अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने । उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अत इति । अतः सुरप्रार्थितत्वाद्धेतोरात्मने पुत्राय । पुत्रमुत्पादयितुमित्यर्थः । `कियार्थोपपदस्ये-` त्यादिना चतुर्थी । पार्वतीं यजमानो यष्टा । `पूङ्यजोः शानन्` (पा.3|2|128) इति शानन्प्रत्ययः । हविर्भोक्तुरग्नेरुत्पतयेऽरणिमग्निमन्थनादारुविशेषमिव । `निर्मन्थ्यदारुणि त्वरणिर्द्वयोः` इत्यमरः (अ.को.2|7|21) । आहर्तुं संग्रहीतुमिच्छामि॥ ६.२८ ॥ अन्वयः: अतः (अहम्) आत्मजन्मने पार्वतीं, यजमानः हविर्भोक्तुः उत्पत्तये अरणिम् इव आहर्तुम् इच्छामि ।
KS 6.29 अनुष्टुप्
तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः । विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तामिति । अस्मदर्थेऽस्मत्प्रयोजने निमित्ते सति युष्माभिस्तां पार्वतीं हिमालयो हिमवान्याचितव्यः । याचेर्दुहादित्वादप्रधाने कर्मणि तव्यप्रत्ययः । आवश्यकं चैतदित्यह-सद्भिः सत्पुरुषैरनुष्ठिताः संघटिताः संबन्धाः यौनादयो विक्रियायै वैकल्योत्पादनाय न कल्पन्ते न पर्याप्नुवन्ति । न समर्था इत्यर्थः । अलमर्थयोगाच्चतुर्थी अन्वयः: अस्मदर्थे युष्मामिः तां हिमालयो याचितव्यः, सदनुष्ठिताः सम्बन्धः विक्रियायै न कल्पन्ते ।
KS 6.30 अनुष्टुप्
उन्नतेन स्थितिमता धुरमुद्वहता भुवः । तेन योजितसंबन्धं वित्त मामप्यवञ्चितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उन्नतेनेति । उन्नतेन प्रांशुना प्रसिद्धेन च स्थितिमता प्रतिष्ठावता भुवो धुरं भारमुद्वहता । निर्वाहकेणेत्यर्थः । तेन हिमवता योजितः संबन्धो यौनसंबन्धो यस्य तं मामप्यवञ्चितमव्यामोहितं वित्त जानीति । `विद ज्ञाने` इति धातोर्लोट् अन्वयः: उन्नतेन स्थितिमता भुवो धुरम् उद्वहता तेन योजितसम्बन्धं माम् अपि अवञ्चितं वित्त ।
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →