तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती । निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
तथेति ॥ पर्वतस्यापत्यं स्त्री पार्वती तथा तेन प्रकारेणाक्ष्णोः समीपे समक्षं पुरतः । `अव्ययं विभक्तिसमीपसमृद्धी-` त्यादिनाव्ययीभावः । मनोभवं मन्मथं दहता भस्मीकुर्वता पिनाकिनेश्वरेण भग्नः खण्डितो मनोरथोऽभिलाषो यस्याः सा तथोक्ता सती हृदयेन मनसा रुपं सौन्दर्यं निनिन्द । `धिङ् मे रुपं यद्धरमनोहरणाय नालमिति गर्हितवतीत्यर्थः` । युक्तं चैतदित्याह-तथाहि । चारुता सैन्दर्यं प्रियेषु विषये सौभाग्यं प्रियवाल्लभ्यं फलं यस्याः सा तथोक्ता । सौन्दर्यस्य तदेव फलं यद्भर्तृसौभाग्यं लभ्यते । नो चेद्विफलं तदिति भावः । अस्मिन्सर्गे वंशस्थं वृत्तम्- `जतौ तु वंशस्थमुदीरितं जरौ` इति लक्षणात्
अन्वयः:
पार्वती तथा समक्षं मनोभवं दहता पिनाकिना भग्नमनोरथा सती हृदयेन रुपं निनिन्द ; हि चारुता प्रियेषु सौभग्यफला (भवति)।
Morphemic Decomposition & Padaccheda
तथा
तथा [ind]
समक्षं
समक्ष [adj]
दहता
दह् [2. P.]
मनोभवं
मनोभव [m]
पिनाकिना
पिनाकिन् [m]
भग्नमनोरथा
भञ्ज् [4. P.]
भग्नमनोरथा
मनोरथ [mn]
सती
अस् [2. P.]
निनिन्द
निन्द् [1. Ā.]
रूपं
रूप [n]
हृदयेन
हृदय [n]
पार्वती
पार्वती [f]
प्रियेषु
प्रिय [adj]
सौभाग्यफला
सौभाग्य [n]
सौभाग्यफला
फल [n]
हि
हि [ind]
चारुता
चारु [adj]
चारुता
ता [f]