Skip to main content
Search
Ch. 5 KS 5.23
Full Chapter
KS • Chapter 5: Canto 5

KS 5.23

Canonical Ref: KS 5.23
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन च । तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): निकामेति । विविधेन पञ्चविधेनेत्यर्थः । नभश्चरेण खेचरेण । आदित्यरुपेणेत्यर्थः । इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना निकाममत्यन्तं तप्ता साम्बिका तपात्यये ग्रीष्मान्ते । प्रावृषीत्यर्थः । नवैर्वारिभिरुक्षिता सिक्ता सती भुवा पञ्चाग्नितप्तया सहोर्ध्वगमूष्माणं वाष्पममुञ्चत् । `ग्रीष्मोष्मवाष्पमूष्माणम्` इति यादवः अन्वयः: विविधेन नभश्चरेण इन्धनसंभृतेन वह्निना निकामतप्ता सा तपाऽत्यये नवैः वारिभिः उक्षिता (सती) भुवा सह ऊर्ध्वगम् ऊष्माणम् अमुञ्चत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
निकामतप्ता
Lemma: निकाम
POS: adj
निकामतप्ता
Lemma: तप्
POS: 4. Ā.
विविधेन
Lemma: विविध
POS: adj
वह्निना
Lemma: वह्नि
POS: m
नभश्चरेणेन्धनसंभृतेन
Lemma: नभस्
POS: n
नभश्चरेणेन्धनसंभृतेन
Lemma: चर
POS: adj
नभश्चरेणेन्धनसंभृतेन
Lemma: इन्धन
POS: n
नभश्चरेणेन्धनसंभृतेन
Lemma: सम्भृ
POS: 3. Ā.
च
Lemma: च
POS: ind
तपात्यये
Lemma: तपात्यय
POS: m
वारिभिर्
Lemma: वारि
POS: n
उक्षिता
Lemma: उक्ष्
POS: 6. Ā.
नवैर्
Lemma: नव
POS: adj
भुवा
Lemma: भू
POS: f
सहोष्माणम्
Lemma: सह
POS: ind
सहोष्माणम्
Lemma: ऊष्मन्
POS: m
अमुञ्चद्
Lemma: मुच्
POS: 6. Ā. • Verb: अमुञ्चत्
ऊर्ध्वगम्
Lemma: ऊर्ध्व
POS: adj
ऊर्ध्वगम्
Lemma: ग
POS: adj
Canonical CTS URN Reference
Kumārasambhavam, KS 5.23. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.22) All Verses in Chapter 5 Next Verse (KS 5.24) →