Skip to main content
Search
Ch. 5 KS 5.22
Full Chapter
KS • Chapter 5: Canto 5

KS 5.22

Canonical Ref: KS 5.22
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः । बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अयाचितेति ॥ अयाचितोपस्थितमप्रार्थितोपनतं केवलमम्बूदकं रसात्मकस्यामृतमयस्योडूनां नक्षत्राणां पतिश्चन्द्रस्तस्य रश्मयश्च तस्याः पार्वत्याः पारणाविधिरभ्यवहारकर्म बभूव । तावन्मात्रसाधनकोऽभूदित्यर्थः । साध्यसाधनयोरभेदेन व्यपदेशः साधनान्तरव्यावृत्त्यर्थः । किलेति प्रसिद्धौ । वृक्षाणां या वृत्तिर्जीवनोपायस्तद्व्यतिरिक्तं साधनमुपायो यस्य स तथोक्तः पारणाविधिर्न बभूव । वृक्षोऽप्ययाचितोपस्थितेन मेघोदकेनेन्दुकिरणैश्च जीवतीति प्रसिद्धम् । अम्बिकापि तावन्मात्रमवालम्बतेत्यर्थः अन्वयः: अयाचितोपस्थितं केवलम् अम्बु रसात्मकस्य उडुपतेः रश्मयश्च तस्याः पारणाविधिः बभूव किल, वृक्षवृत्तिव्यतिरिक्तसाधनः पारणाविधिः न बभूव ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अयाचितोपस्थितम्
Lemma: अयाचित
POS: adj
अयाचितोपस्थितम्
Lemma: उपस्था
POS: 1. Ā.
अम्बु
Lemma: अम्बु
POS: n
केवलं
Lemma: केवल
POS: adj
रसात्मकस्योडुपतेश्
Lemma: रस
POS: mn
रसात्मकस्योडुपतेश्
Lemma: आत्मक
POS: adj
रसात्मकस्योडुपतेश्
Lemma: उडुपति
POS: m
च
Lemma: च
POS: ind
रश्मयः
Lemma: रश्मि
POS: mf
बभूव
Lemma: भू
POS: 1. Ā. • Verb: बभूव
तस्याः
Lemma: तद्
POS: pron
किल
Lemma: किल
POS: ind
न
Lemma: न
POS: ind
वृक्षवृत्तिव्यतिरिक्तसाधनः
Lemma: वृक्ष
POS: m
वृक्षवृत्तिव्यतिरिक्तसाधनः
Lemma: वृत्ति
POS: f
वृक्षवृत्तिव्यतिरिक्तसाधनः
Lemma: व्यतिरिच्
POS: 7. P.
वृक्षवृत्तिव्यतिरिक्तसाधनः
Lemma: साधन
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 5.22. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.21) All Verses in Chapter 5 Next Verse (KS 5.23) →