Skip to main content
Search
Ch. 5 KS 5.28
Full Chapter
KS • Chapter 5: Canto 5

KS 5.28

Canonical Ref: KS 5.28
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स्वयमिति । स्वयं विशीर्णानि स्वतश्च्युतानि द्रुमपर्णान्येव वृत्तिर्जीवनं यस्य तस्य भावस्तत्ता तपसः परा काष्ठा परमुत्कर्षो हि । `काष्ठोत्कर्षे स्थितौ दिशि` इत्यमरः (अ.को.3|3|47) । तया देव्या पुनस्तत्पर्णवर्तनमप्यपाकीर्णमपाकृतम् । अतः पर्णापाकरणाद्धेतोः । प्रियं वदतीति प्रियंवदा । `प्रियवशे वदः खच्` (पा.3|2|38) इति खच् प्रत्ययः । `अरुद्विषदजन्तस्य मुम्` इति मुमागमः । तां पार्वतीं पुराविदः पुराणज्ञास्तपःकरणसमये अविद्यमानं पर्णभक्षणं यस्याः सापर्णेति वदन्ति । नामान्तरसमुच्चयार्थश्चाकारः । अत्र`अपर्णाम्` इत्यपपाठः इति शब्दाभिहितद्वितीयानुपपत्तेः । यथाह वामनः- `निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्` इति । स्वयं प्रियंवदाः परेशामपि प्रियवादभाजनानि भवन्तीति भावः अन्वयः: स्वयं विशीर्णद्रुमपर्णवृत्तिता तपसः परा काष्ठा हि । तया पुनः तद् अपि अपकीर्णम्, अतः तां पार्वतीं पुराविदः `अपर्णा` इति च वदन्ति ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
स्वयंविशीर्णद्रुमपर्णवृत्तिता
Lemma: स्वयम्
POS: ind
स्वयंविशीर्णद्रुमपर्णवृत्तिता
Lemma: विशृ
POS: 4. P.
स्वयंविशीर्णद्रुमपर्णवृत्तिता
Lemma: द्रुम
POS: m
स्वयंविशीर्णद्रुमपर्णवृत्तिता
Lemma: पर्ण
POS: mn
स्वयंविशीर्णद्रुमपर्णवृत्तिता
Lemma: वृत्ति
POS: f
स्वयंविशीर्णद्रुमपर्णवृत्तिता
Lemma: ता
POS: f
परा
Lemma: पर
POS: pron
हि
Lemma: हि
POS: ind
काष्ठा
Lemma: काष्ठा
POS: f
तपसस्
Lemma: तपस्
POS: n
तया
Lemma: तद्
POS: pron
पुनः
Lemma: पुनर्
POS: ind
तद्
Lemma: तद्
POS: pron
अप्य्
Lemma: अपि
POS: ind
अपाकीर्णम्
Lemma: अपाकृ
POS: 6. P.
अतः
Lemma: अतस्
POS: ind
प्रियंवदां
Lemma: प्रियंवद
POS: adj
वदन्त्य्
Lemma: वद्
POS: 1. Ā. • Verb: वदन्ति
अपर्णेति
Lemma: अपर्णा
POS: f
अपर्णेति
Lemma: इति
POS: ind
च
Lemma: च
POS: ind
तां
Lemma: तद्
POS: pron
पुराविदः
Lemma: पुराविद्
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 5.28. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.27) All Verses in Chapter 5 Next Verse (KS 5.29) →