Skip to main content
Search
Ch. 5 KS 5.29
Full Chapter
KS • Chapter 5: Canto 5

KS 5.29

Canonical Ref: KS 5.29
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
मृणालिकापेलवमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् । तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): मृणालिकेति । मृणालिकापेलवं पद्मिनीकन्दकोमलं स्वं स्वकीयमङ्गं शरीमेवमुक्तप्रकारतोयाग्निमध्यवासव्रतमादिर्येषां तैर्व्रतेरहश्च निशा चाहर्निशम् । समाहारे द्वन्द्वैकवद्भावः, अत्यन्तसंयोगे द्वितीया । ग्लपयन्ती कर्शयन्ती सा पार्वती कठिनैः क्लेशसहैरित्यर्थः । शरीरैरुपार्जितं संपादितं तपस्विनामृषीणां तपो दूरमत्यन्तमधश्चकार तिरश्चकार । अतिशिश्य इत्यर्थः । तपस्विभिरप्यवं तपः कर्तुं न शक्यत इति तात्पर्यार्थः अन्वयः: मृणालिकापेलवं स्वम् अङ्गम् एवमादिभिः व्रतैः अहर्निशं ग्लपयन्ती सा कठिनैः शरीरैः उपार्जितं तपस्विनां तपः दूरम् अधश्चकार ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
मृणालिकापेलवम्
Lemma: मृणालिका
POS: f
मृणालिकापेलवम्
Lemma: पेलव
POS: adj
एवमादिभिर्
Lemma: एवमादि
POS: adj
व्रतैः
Lemma: व्रत
POS: n
स्वम्
Lemma: स्व
POS: adj
अङ्गं
Lemma: अङ्ग
POS: n
ग्लपयन्त्य्
Lemma: ग्लपय्
POS: 10. Ā.
अहर्निशम्
Lemma: अहर्निश
POS: n
तपः
Lemma: तपस्
POS: n
शरीरैः
Lemma: शरीर
POS: n
कठिनैर्
Lemma: कठिन
POS: adj
उपार्जितं
Lemma: उपार्जय्
POS: 10. P.
तपस्विनां
Lemma: तपस्विन्
POS: m
दूरम्
Lemma: दूरम्
POS: ind
अधश्
Lemma: अधस्
POS: ind
चकार
Lemma: कृ
POS: 2. Ā. • Verb: चकार
सा
Lemma: तद्
POS: pron
Canonical CTS URN Reference
Kumārasambhavam, KS 5.29. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.28) All Verses in Chapter 5 Next Verse (KS 5.30) →