Skip to main content
Search
Ch. 5 KS 5.14
Full Chapter
KS • Chapter 5: Canto 5

KS 5.14

Canonical Ref: KS 5.14
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
अतन्द्रिता सा स्वयमेव वृक्षकान्घटस्तनप्रस्रवणैर्व्यवर्धयत् । गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अतन्द्रितेति ॥ सा देवी स्वयमेवातन्द्रितासंजाततन्द्रा सती । तारकादित्वादितच्प्रययः । वृक्षकान्स्वल्पवृक्षान् । `अल्पे` (पा.5|3|85) इत्यल्पार्थे कप्रत्ययः । घटावेव स्तनौ तयोः प्रस्रवणैः प्रसृतपयोभिर्व्यवर्धयत् । गुहः कुमारोऽपि प्रथमाप्तजन्मनां प्रथमलब्धजन्मनाम् । अग्रजातानामित्यर्थः । येषां वृक्षकाणां संबन्धि पुत्रवात्सल्यं सुतप्रेम नापाकरिष्यति । उत्तरत्र कुमारोदयेऽपि न तेषु पुत्रवात्सल्यं निवर्तिष्यत इत्यर्थः अन्वयः: सा स्वयम् एव अतन्द्रिता (सती) वृक्षकान् घदस्तनप्रस्रवणैः व्यवर्द्धयत्, गुहः अपि प्रथमाप्तजन्मनां येषां पुत्रवात्सल्यं न अपाकरिष्यति ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अतन्द्रिता
Lemma: अतन्द्रित
POS: adj
सा
Lemma: तद्
POS: pron
स्वयम्
Lemma: स्वयम्
POS: ind
एव
Lemma: एव
POS: ind
वृक्षकान्
Lemma: वृक्षक
POS: m
घटस्तनप्रस्रवणैर्
Lemma: घट
POS: m
घटस्तनप्रस्रवणैर्
Lemma: स्तन
POS: mn
घटस्तनप्रस्रवणैर्
Lemma: प्रस्रवण
POS: n
व्यवर्धयत्
Lemma: विवर्धय्
POS: 10. P. • Verb: व्यवर्धयत्
गुहो
Lemma: गुह
POS: m
ऽपि
Lemma: अपि
POS: ind
येषां
Lemma: यद्
POS: pron
प्रथमाप्तजन्मनां
Lemma: प्रथम
POS: adj
प्रथमाप्तजन्मनां
Lemma: आप्
POS: 1. P.
प्रथमाप्तजन्मनां
Lemma: जन्मन्
POS: n
न
Lemma: न
POS: ind
पुत्रवात्सल्यम्
Lemma: पुत्र
POS: m
पुत्रवात्सल्यम्
Lemma: वात्सल्य
POS: n
अपाकरिष्यति
Lemma: अपाकृ
POS: 8. P. • Verb: अपाकरिष्यति
Canonical CTS URN Reference
Kumārasambhavam, KS 5.14. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.13) All Verses in Chapter 5 Next Verse (KS 5.15) →