Skip to main content
Search
Ch. 5 KS 5.13
Full Chapter
KS • Chapter 5: Canto 5

KS 5.13

Canonical Ref: KS 5.13
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितम्द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): पुनरिति ॥ नियमस्थया व्रतस्थया तया देव्या द्वयेऽपि द्वयं पुनर्ग्रहीतुं निक्षेपोऽर्पितमिव निक्षेपत्वेनार्पितं किमु । क्वचित् । `द्वयीषु` इति प्रामादिकः पाठः । कुत्र द्वये किं द्वयमर्पितमित्याह-तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं हरिणाङ्गनासु विलासदृष्टं चञ्चलावलोकितं च व्रतस्थायां तस्यां तयोरदर्शनाल्लतादिषु दर्शनाच्चार्पितमिवेत्युत्प्रेक्षा न तु वस्तुतोऽर्पणमस्तीति भावः अन्वयः: नियमस्थया तया तन्वीषु लतासु विलासचेष्टितं हरिणाऽङ्गनासु विलोलदृष्टं च द्वयं द्वये अपि पुनः ग्रहीतुं निक्षेप इव अर्पितम् किमु ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
पुनर्
Lemma: पुनर्
POS: ind
ग्रहीतुं
Lemma: ग्रह्
POS: 6. Ā.
नियमस्थया
Lemma: नियम
POS: m
नियमस्थया
Lemma: स्थ
POS: adj
तया
Lemma: तद्
POS: pron
द्वये
Lemma: द्वय
POS: n
ऽपि
Lemma: अपि
POS: ind
निक्षेप
Lemma: निक्षेप
POS: m
इवार्पितम्
Lemma: इव
POS: ind
इवार्पितम्
Lemma: अर्पय्
POS: 10. Ā.
द्वयम्
Lemma: द्वय
POS: n
लतासु
Lemma: लता
POS: f
तन्वीषु
Lemma: तनु
POS: adj
विलासचेष्टितं
Lemma: विलास
POS: m
विलासचेष्टितं
Lemma: चेष्ट्
POS: 1. Ā.
विलोलदृष्टं
Lemma: विलोल
POS: adj
विलोलदृष्टं
Lemma: दृश्
POS: 6. P.
हरिणाङ्गनासु
Lemma: हरिण
POS: m
हरिणाङ्गनासु
Lemma: अङ्गना
POS: f
च
Lemma: च
POS: ind
Canonical CTS URN Reference
Kumārasambhavam, KS 5.13. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.12) All Verses in Chapter 5 Next Verse (KS 5.14) →