Skip to main content
Search
Full Chapter
KS • Chapter 5: Canto 5

KS 5.2

Canonical Ref: KS 5.2
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः । अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इयेषेति ॥ सा पार्वती समाधिमेकाग्रतामास्थायावलम्ब्यतपोभिर्वक्ष्यमाणनियमैः करणभूतैरात्मनः स्वस्याबन्ध्यरुपतां सफलसौन्दर्यं कर्तुमियेषेच्छति स्म । तपसा शिवं वशीकर्तुमुद्युक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तद्‌द्वयमवाप्यते । किं तद्द्वयम् ? तथाभूता विधा प्राकारो यस्य तत्तथाविधं प्रेम स्नेहः येनार्धाङ्गहरा हरस्य भवेदिति भावः । तादृशः पतिश्च । यो मृत्युंजय इति भावः । द्वयमेव खलु स्त्रीणामपेक्षितं यद्भर्तृवाल्लभ्यं जीवद्भर्तृकत्वं चेति । तच्च तपश्चर्यैकसाध्यमिति निश्चिकायेत्यर्थः । अत्र मनुः- `यद् दुष्करं यद् दुरापं यद् दुर्गं यच्च दुस्तरम् । तत्सर्व तपसा प्राप्यं तपो हि दुरतिक्रमम् ॥` इति अन्वयः: सा समाधिम् आस्थाय तपोभिः आत्मनः अवन्ध्यरूपतां कर्तुम् इयेष; अन्यथा तथाविधं प्रेम वा तादृशः पतिश्च द्वयं कथम् अवाप्यते ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
इयेष
Lemma: इष्
POS: 1. P. • Verb: इयेष
सा
Lemma: तद्
POS: pron
कर्तुम्
Lemma: कृ
POS: 2. Ā.
अवन्ध्यरूपतां
Lemma: अवन्ध्य
POS: adj
अवन्ध्यरूपतां
Lemma: रूप
POS: n
अवन्ध्यरूपतां
Lemma: ता
POS: f
समाधिम्
Lemma: समाधि
POS: m
आस्थाय
Lemma: आस्था
POS: 1. Ā.
तपोभिर्
Lemma: तपस्
POS: n
आत्मनः
Lemma: आत्मन्
POS: m
अवाप्यते
Lemma: अवाप्
POS: 5. Ā. • Verb: अवाप्यते
वा
Lemma: वा
POS: ind
कथम्
Lemma: कथम्
POS: ind
अन्यथा
Lemma: अन्यथा
POS: ind
द्वयं
Lemma: द्वय
POS: n
तथाविधं
Lemma: तथाविध
POS: adj
प्रेम
Lemma: प्रेमन्
POS: mn
पतिश्
Lemma: पति
POS: m
च
Lemma: च
POS: ind
तादृशः
Lemma: तादृश
POS: adj
Canonical CTS URN Reference
Kumārasambhavam, KS 5.2. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.1) All Verses in Chapter 5 Next Verse (KS 5.3) →