Skip to main content
Search
Ch. 5 KS 5.25
Full Chapter
KS • Chapter 5: Canto 5

KS 5.25

Canonical Ref: KS 5.25
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु । व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इव स्थिताः क्षपाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): शिलाशयामिति । निरन्तरासु नीरन्ध्रास्वन्तरे मध्ये वाती यासां तादृश्यो या वृष्टयस्तास्वन्तरवातवृष्टिषु । न निकेते गृहे वसतीत्यनिकेतवासिनीम् । अनावृतदेशवासिनीमित्यर्थः । शिलायां शेत इति शिलाशयां शिलातलशायिनीम् । `अधिकरणे शेतेः` (पा.3|2|15) इत्यच्प्रत्ययः । तां पार्वतीं `साक्षाद्द्रष्टा साक्षी` । `साक्षाद्‌द्रष्टरि संज्ञायाम्` इति निप्रत्ययः । तस्य कर्म साक्ष्यं महातपसः साक्ष्ये स्थिताः क्षपास्तडिन्मयैर्विद्युद्द्रूपैतैरवलोकनैर्व्यलोकयन्निव । इवेति चक्षुषा विलोकनमेवोत्प्रेक्ष्यते । साक्ष्यं तु `आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥` इति प्रमाणसिद्धत्वान्नोत्प्रेक्ष्यमित्यनुसंधेयम् अन्वयः: निरन्तरासु अन्तरवातवृष्टिषु अनिकेतवासिनीं शिलाशयां तां महातपः साक्ष्ये स्थिता इव क्षपाः तडिन्मयैः उन्मिषितैः व्यलोकयन् इव ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
शिलाशयां
Lemma: शिला
POS: f
शिलाशयां
Lemma: आशय
POS: m
ताम्
Lemma: तद्
POS: pron
अनिकेतवासिनीं
Lemma: अनिकेत
POS: adj
अनिकेतवासिनीं
Lemma: वासिन्
POS: adj
निरन्तरास्व्
Lemma: निरन्तर
POS: adj
अन्तरवातवृष्टिषु
Lemma: अन्तर
POS: adj
अन्तरवातवृष्टिषु
Lemma: वात
POS: m
अन्तरवातवृष्टिषु
Lemma: वृष्टि
POS: f
व्यलोकयन्न्
Lemma: विलोकय्
POS: 10. Ā. • Verb: व्यलोकयन्
उन्मिषितैस्
Lemma: उन्मिष्
POS: 6. P.
तडिन्मयैर्
Lemma: तडित्
POS: f
तडिन्मयैर्
Lemma: मय
POS: adj
महातपःसाक्ष्य
Lemma: महत्
POS: adj
महातपःसाक्ष्य
Lemma: तपस्
POS: n
महातपःसाक्ष्य
Lemma: साक्ष्य
POS: n
इव
Lemma: इव
POS: ind
स्थिताः
Lemma: स्था
POS: 1. Ā.
क्षपाः
Lemma: क्षपा
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 5.25. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.24) All Verses in Chapter 5 Next Verse (KS 5.26) →