Skip to main content
Search
Ch. 5 KS 5.16
Full Chapter
KS • Chapter 5: Canto 5

KS 5.16

Canonical Ref: KS 5.16
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
कृताभिशेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिग्दृक्षवस्ताम् ऋषयोऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): कृतेति । कृताभिषेकां कृतस्नानां हुतजातवेदसं हुताग्निकाम् । कृतहोमामित्यर्थः । त्वया वल्कलेनोत्तरासङ्गवतीमुत्तरीयवतीं त्वगृत्तरासङ्गवतीम् । अधीतमस्या अस्तीत्यधीतिनीं स्तुतिपाठादि कुर्वतीम् । `इष्टादिभ्यश्च` (पा.5|2|88) इतीनिप्रत्ययः । तां देवीं दिदृक्षवो द्रष्टुमिच्छव ऋषयो मुनयोऽभ्युपागमन्समुपागताः । न चात्र कनिष्ठसेवादोष इत्याह-धर्मवृद्धेषु वयो न समीक्ष्यते न प्रमाणीक्रियते । सति धर्मज्यैष्ठ्ये वयोज्यैष्ठ्यं न प्रयोजकमित्यर्थः । तथा च मनुः- `न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥` इति अन्वयः: कृताऽभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीम् अधीतिनीं तां दिदृक्षवः ऋषयः अभ्युपागमन्, धर्मवृद्धेषु वयो न समीक्ष्यते ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
कृताभिषेकां
Lemma: कृ
POS: 2. Ā.
कृताभिषेकां
Lemma: अभिषेक
POS: m
हुतजातवेदसं
Lemma: हु
POS: 3. Ā.
हुतजातवेदसं
Lemma: जातवेदस्
POS: m
त्वगुत्तरासङ्गवतीम्
Lemma: त्वच्
POS: f
त्वगुत्तरासङ्गवतीम्
Lemma: उत्तरासङ्गवत्
POS: adj
अधीतिनीम्
Lemma: अधीतिन्
POS: adj
दिदृक्षवस्
Lemma: दिदृक्षु
POS: adj
ताम्
Lemma: तद्
POS: pron
ऋषयो
Lemma: ऋषि
POS: m
ऽभ्युपागमन्
Lemma: अभ्युपगम्
POS: 1. Ā. • Verb: अभ्युपागमत्
न
Lemma: न
POS: ind
धर्मवृद्धेषु
Lemma: धर्म
POS: mn
धर्मवृद्धेषु
Lemma: वृध्
POS: 6. P.
वयः
Lemma: वयस्
POS: n
समीक्ष्यते
Lemma: समीक्ष्
POS: 1. Ā. • Verb: समीक्ष्यते
Canonical CTS URN Reference
Kumārasambhavam, KS 5.16. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.15) All Verses in Chapter 5 Next Verse (KS 5.17) →