Skip to main content
Search
Ch. 6 KS 6.20
Full Chapter
KS • Chapter 6: Canto 6

KS 6.20

Canonical Ref: KS 6.20
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
त्वत्संभावितमात्मानं बहु मन्यामहे वयम् । प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): त्वदिति । वयं त्वया सम्भावितं सत्कृतं त्वत्संभावितमात्मानमात्मस्वरुपं बह्वधिकं यथा तथा मन्यामहे । तथाहि । उत्तमादरः सत्पुरुषकर्तृकः सत्कारः स्वगुणेषु विषये प्रायेण भूम्ना प्रत्ययं विश्वासमाधत्ते जनयति । सर्वस्यापि महाजनपरिग्रह एव पूज्यताहेतुरित्यर्थः अन्वयः: (हे भगवन् !) वयं त्वत्संभावितम् आत्मानं बहु मन्यामहे । उत्तमादरः स्वगुणेषु स्वगुणेषु प्रायः प्रत्ययम् आधत्ते ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
त्वत्संभावितम्
Lemma: त्वद्
POS: pron
त्वत्संभावितम्
Lemma: सम्भावय्
POS: 10. Ā.
आत्मानं
Lemma: आत्मन्
POS: m
बहु
Lemma: बहु
POS: adj
मन्यामहे
Lemma: मन्
POS: 8. P. • Verb: मन्यामहे
वयम्
Lemma: मद्
POS: pron
प्रायः
Lemma: प्रायस्
POS: ind
प्रत्ययम्
Lemma: प्रत्यय
POS: m
आधत्ते
Lemma: आधा
POS: 3. Ā. • Verb: आधत्ते
स्वगुणेषूत्तमादरः
Lemma: स्व
POS: adj
स्वगुणेषूत्तमादरः
Lemma: गुण
POS: mn
स्वगुणेषूत्तमादरः
Lemma: उत्तम
POS: adj
स्वगुणेषूत्तमादरः
Lemma: आदर
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 6.20. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 6.19) All Verses in Chapter 6 Next Verse (KS 6.21) →