Skip to main content
Search
Ch. 7 KS 7.87
Full Chapter
KS • Chapter 7: Canto 7

KS 7.87

Canonical Ref: KS 7.87
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि वीरप्रसवा भवेति । वाचस्पतिः सन्नपि सोऽष्टमूर्त्तवाशास्य चिन्तास्तिमितो बभूव ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वधूरिति । वधूः कन्या विधात्रा ब्रह्मणा । हे कल्याणि शोभने, वीरः प्रसवोऽपत्यं यस्याः सा वीरप्रसवा वीरप्रसूर्भवेति प्रतिनन्द्यते स्म । आशिषमुत्क्वेत्यर्थः । स विधाता वाचस्पतिर्वागीश्वरोऽपि सन् । कस्कादिषु पाठात्साधुः । अष्टमूर्तौ शिवे त्वाशास्यमाकाङ्क्ष्यं तत्र चिन्ता विचारस्तस्यां स्तिमितो मन्दो बभूव । तस्य, निरीहस्याशास्याभावादाशिषि स्तिमितत्वमित्यर्थः अन्वयः: वधूः विधात्रा- `हे कल्याणि ! वीरप्रसवा भव` इति प्रतिनन्द्यते स्म । स वाचस्पतिः सन् अपि अष्टमूर्तौ तु आशास्य चिन्तास्तिमितो बभूव ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
वधूर्
Lemma: वधू
POS: f
विधात्रा
Lemma: विधातृ
POS: m
प्रतिनन्द्यते
Lemma: प्रतिनन्द्
POS: 1. Ā. • Verb: प्रतिनन्द्यते
स्म
Lemma: स्म
POS: ind
कल्याणि
Lemma: कल्याण
POS: adj
वीरप्रसवा
Lemma: वीर
POS: m
वीरप्रसवा
Lemma: प्रसव
POS: m
भवेति
Lemma: भू
POS: 1. Ā. • Verb: भव
भवेति
Lemma: इति
POS: ind
वाचस्पतिः
Lemma: वाचस्पति
POS: m
सन्न्
Lemma: अस्
POS: 2. P.
अपि
Lemma: अपि
POS: ind
सो
Lemma: तद्
POS: pron
ऽष्टमूर्त्ताव्
Lemma: अष्टमूर्ति
POS: m
आशास्य
Lemma: आशास्
POS: 1. P.
चिन्तास्तिमितो
Lemma: चिन्ता
POS: f
चिन्तास्तिमितो
Lemma: स्तिमित
POS: adj
बभूव
Lemma: भू
POS: 1. Ā. • Verb: बभूव
Canonical CTS URN Reference
Kumārasambhavam, KS 7.87. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.86) All Verses in Chapter 7 Next Verse (KS 7.88) →