Skip to main content
Search
Ch. 7 KS 7.64
Full Chapter
KS • Chapter 7: Canto 7

KS 7.64

Canonical Ref: KS 7.64
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तमेकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तमिति । एक एव दृश्यो दर्शनीयस्तमेकदृश्यं तमीश्वरं नयनैः पिबन्त्यः । अतितृष्णया पश्यन्त इत्यर्थः । `ताः शंकरं दृष्टिभिरापिबन्त्यः` इति वा पाठः । नार्यो विषान्तराणि ततोऽन्यान्विषयान् । शब्दादीनित्यर्थः । न जग्मुः । न विदुरित्यर्थः । तथाहि । आसां नारीणां शेषेन्द्रियवृत्तिः श्रोत्रादिप्रवृत्तिः सर्वात्मना स्वरूपकार्त्स्न्येन चक्षुः प्रिविष्टेव । श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु । अन्यथा स्वस्वविषयाधिगमः किं न स्यादिति भावः । अन्वयः: एकदृश्यं तं नयनैः पिबन्त्यो नार्यो विषयान्तराणि न जग्मुः, तथा हि-आसां शेषेन्द्रियवृत्तिः सर्वात्मना चक्षुः प्रविष्टा इव ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तम्
Lemma: तद्
POS: pron
एकदृश्यं
Lemma: एक
POS: pron
एकदृश्यं
Lemma: दृश्
POS: 6. P.
नयनैः
Lemma: नयन
POS: n
पिबन्त्यो
Lemma: पा
POS: 1. Ā.
नार्यो
Lemma: नारी
POS: f
न
Lemma: न
POS: ind
जग्मुर्
Lemma: गम्
POS: 6. Ā. • Verb: जग्मुः
विषयान्तराणि
Lemma: विषय
POS: mn
विषयान्तराणि
Lemma: अन्तर
POS: adj
तथा
Lemma: तथा
POS: ind
हि
Lemma: हि
POS: ind
शेषेन्द्रियवृत्तिर्
Lemma: शेष
POS: mn
शेषेन्द्रियवृत्तिर्
Lemma: इन्द्रिय
POS: n
शेषेन्द्रियवृत्तिर्
Lemma: वृत्ति
POS: f
आसां
Lemma: इदम्
POS: pron
सर्वात्मना
Lemma: सर्व
POS: pron
सर्वात्मना
Lemma: आत्मन्
POS: m
चक्षुर्
Lemma: चक्षुस्
POS: n
इव
Lemma: इव
POS: ind
प्रविष्टा
Lemma: प्रविश्
POS: 4. P.
Canonical CTS URN Reference
Kumārasambhavam, KS 7.64. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.63) All Verses in Chapter 7 Next Verse (KS 7.65) →