Skip to main content
Search
Ch. 7 KS 7.40
Full Chapter
KS • Chapter 7: Canto 7

KS 7.40

Canonical Ref: KS 7.40
Metrical Form: उपेन्द्रवज्रा
Sanskrit (Devanāgarī)
ततो गणैः शूलभृतः पुरोगैरुदीरितो मङ्गलतूर्यघोषः । विमानशृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तत इति । ततोऽनन्तरं शूलभृतः शिवस्य पुरो गच्छन्तीति पुरोगैरग्रेसरैः। `अन्यत्रापि दृश्यत इति वक्तव्यम्` इति गमेर्डप्रत्ययः । गणैः प्रमथैरुदीरित उत्पादितो मङ्गलतूर्यघोषो मङ्गलवाद्यध्वनिर्विमानश्रृंगाण्यवगाहमानः सन् सुरेभ्यो विमानस्थेभ्यः सेवाऽवसरं शशंस । सुराः प्रस्थानध्वनिमाकर्ण्यायमेव नः सेवाऽवसर इत्याजग्मुरित्यर्थः अन्वयः: ततः शूलभृतः पुरोगैः गुणं उदीरितो मङ्गलतूर्यघोषो विमानशृङ्गाणि अवगाहमानः (सन्) सुरेभ्यः सेवाऽवसरं शशंस ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
ततो
Lemma: ततस्
POS: ind
गणैः
Lemma: गण
POS: m
शूलभृतः
Lemma: शूलभृत्
POS: m
पुरोगैर्
Lemma: पुरोग
POS: adj
उदीरितो
Lemma: उदीरय्
POS: 10. P.
मङ्गलतूर्यघोषः
Lemma: मङ्गल
POS: n
मङ्गलतूर्यघोषः
Lemma: तूर्य
POS: mn
मङ्गलतूर्यघोषः
Lemma: घोष
POS: m
विमानशृङ्गाण्य्
Lemma: विमान
POS: mn
विमानशृङ्गाण्य्
Lemma: शृङ्ग
POS: n
अवगाहमानः
Lemma: अवगाह्
POS: 1. P.
शशंस
Lemma: शंस्
POS: 2. Ā. • Verb: शशंस
सेवावसरं
Lemma: सेवा
POS: f
सेवावसरं
Lemma: अवसर
POS: m
सुरेभ्यः
Lemma: सुर
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 7.40. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.39) All Verses in Chapter 7 Next Verse (KS 7.41) →