Skip to main content
Search
Ch. 7 KS 7.30
Full Chapter
KS • Chapter 7: Canto 7

KS 7.30

Canonical Ref: KS 7.30
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तावद्वरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम् । प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुरशासनस्य ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तावदिति । तावत्, यावद् गौरीप्रसाधनं क्रियते तत्काल एवेत्यर्थः कुबेरशैले कैलासे । तदेव पूर्वं तत्पूर्वं तच्च तत्पाणिग्रहणं तस्यानुरुपं प्रसाधनमलंकारसामग्री आदृताभिः सादराभिः । कर्तरि क्तः । मातृभिर्ब्राह्मीप्रभृतिभिः सप्तमातृकाभिः । पुरं शास्तीति पुरशासनस्तस्य । कर्तरि ल्युट् । भवस्यापि पुरस्तादग्रे न्यस्तं निक्षिप्तम् अन्वयः: तावत् कुबेरशैले तत्पूर्वपाणिग्रहणाऽनुरुपं प्रसाधनम् आदृताभिः मातृभिः पुरशासनस्य पुरस्तात् न्यस्तम् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तावद्
Lemma: तावत्
POS: ind
वरस्यापि
Lemma: वर
POS: m
वरस्यापि
Lemma: अपि
POS: ind
कुबेरशैले
Lemma: कुबेर
POS: m
कुबेरशैले
Lemma: शैल
POS: mn
तत्पूर्वपाणिग्रहणानुरूपम्
Lemma: तद्
POS: pron
तत्पूर्वपाणिग्रहणानुरूपम्
Lemma: पूर्व
POS: pron
तत्पूर्वपाणिग्रहणानुरूपम्
Lemma: पाणिग्रहण
POS: n
तत्पूर्वपाणिग्रहणानुरूपम्
Lemma: अनुरूप
POS: adj
प्रसाधनं
Lemma: प्रसाधन
POS: n
मातृभिर्
Lemma: मातृ
POS: f
आदृताभिर्
Lemma: आदृ
POS: 1. P.
न्यस्तं
Lemma: न्यस्
POS: 2. P.
पुरस्तात्
Lemma: पुरस्तात्
POS: ind
पुरशासनस्य
Lemma: पुरशासन
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 7.30. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.29) All Verses in Chapter 7 Next Verse (KS 7.31) →