Skip to main content
Search
Ch. 7 KS 7.21
Full Chapter
KS • Chapter 7: Canto 7

KS 7.21

Canonical Ref: KS 7.21
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
सा संभवद्भिः कुसुमैर्लतेव ज्योतिर्भिरुद्यद्भिरिव त्रियामा । सरिद्विहङ्गैरिव लीयमानैरामुच्यमानाभरणा चकासे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): सेति । आमुच्यमानाभरणा निबध्यमानाभरणा सा गौरी संभवद्भिरुत्पद्यमानैः कुसुमैर्लतेव । अनेन पद्मरागेन्द्रनीलादीन्याभरणानि सूचितानि, लताकुसुमानां नानावर्णत्वात् । उद्यद्भिरुदयं गच्छद्भिर्ज्योतिर्भिरुडुभिस्त्रियामा रात्रिरिव । अनेन मौक्तिकानि कथितानि । लीयमानैराश्रयद्भिः । निषीदद्भिरित्यर्थः । विहंगैश्चक्रवाकैः सरिदिव । अनेन सुवर्णाभरणानि सूचितानि । विहंगाश्च तत्सूचनाय चक्रवाका अभिमताः । चकासे रेजे । अत्र लताकुसुमादीनां सहजसंबन्धिनामुपमानत्वेनोपादानादाहर्यकमपि तस्याः सहजमिवाशोभतेति भावः अन्वयः: आमुच्यमानाभरणा सा संभवद्भिः कुसुमैः लता इव, उद्यद्भिः ज्योतिर्भिः त्रियामा इव, लीयमानैः विहङ्गैः सरित् इव चकासे ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
सा
Lemma: तद्
POS: pron
सम्भवद्भिः
Lemma: सम्भू
POS: 1. Ā.
कुसुमैर्
Lemma: कुसुम
POS: n
लतेव
Lemma: लता
POS: f
लतेव
Lemma: इव
POS: ind
ज्योतिर्भिर्
Lemma: ज्योतिस्
POS: n
उद्यद्भिर्
Lemma: उदि
POS: 4. Ā.
इव
Lemma: इव
POS: ind
त्रियामा
Lemma: त्रियामा
POS: f
सरिद्
Lemma: सरित्
POS: f
विहङ्गैर्
Lemma: विहंग
POS: m
इव
Lemma: इव
POS: ind
लीयमानैर्
Lemma: ली
POS: 1. Ā.
आमुच्यमानाभरणा
Lemma: आमुच्
POS: 6. Ā.
आमुच्यमानाभरणा
Lemma: आभरण
POS: n
चकाशे
Lemma: काश्
POS: 1. P. • Verb: चकाशे
Canonical CTS URN Reference
Kumārasambhavam, KS 7.21. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.20) All Verses in Chapter 7 Next Verse (KS 7.22) →